सीतारमणो नितिन नबीनेन सह अकरोत् मेलनं, नूतनदायित्वेभ्योऽददात् शुभकामनाः
नवदिल्‍ली, 29 दिसंबरमासः (हि.स)। केन्द्रीय-वित्तमन्त्री निर्मला सीतारमण सोमवासरे नवी दिल्लीमध्ये भारतीयजनतापक्षस्य राष्ट्रियकार्यकारी-अध्यक्षं नितिन् नबीनम् उपसंगत्य साक्षात्कृतवती। तस्मिन् समये तस्मै नूतनदायित्वानां निमित्तं शुभकामनाः दत्ताः। के
भाजपा के राष्‍ट्रीय कार्यकारी अध्‍यक्ष से मुलाकात करते वित्‍त मंत्री


नवदिल्‍ली, 29 दिसंबरमासः (हि.स)।

केन्द्रीय-वित्तमन्त्री निर्मला सीतारमण सोमवासरे नवी दिल्लीमध्ये भारतीयजनतापक्षस्य राष्ट्रियकार्यकारी-अध्यक्षं नितिन् नबीनम् उपसंगत्य साक्षात्कृतवती। तस्मिन् समये तस्मै नूतनदायित्वानां निमित्तं शुभकामनाः दत्ताः।

केन्द्रीय-वित्तमन्त्रिणः एषा भारतीयजनतापक्षस्य कार्यकारी-अध्यक्षेन सह भेटिः सौहार्दपूर्ण-वातावरणे अभवत्, यस्मिन् संगठनसम्बद्धविभिन्नविषयेषु अपि चर्चा जाताः। निर्मला सीतारमण तेन सह संवादे नितिन् नबीनम् दलस्य नूतनदायित्वप्राप्तेः निमित्तं अभिनन्द्य, तस्य सफलकार्यकालनिमित्तं शुभाशंसाः अकरोत्।

नितिन नबीनः वर्तमानसमये भारतीयजनतापक्षस्य राष्ट्रिय-कार्यकारी-अध्यक्षपदे नियुक्तिः कृता। पक्ष-संगठने तस्मै महत्त्वपूर्णं दायित्वं दत्तम्, यस्मात् कारणात् कार्यकर्तृषु नेतृषु च उत्साहः दृश्यते। नितिन् नबीन इत्यस्य विषये ज्ञायते यत् सः संगठनात्मकानुभवेन सक्रियभूमिकया च विख्यातः। ततः पूर्वं 26 डिसेम्बर-तिथौ नितिन् नबीन गुवाहाटी-नगरस्य भ्रणम् अपि कृतवान्।

---------------

हिन्दुस्थान समाचार