Enter your Email Address to subscribe to our newsletters

भोपालः, २९ दिसम्बरमासः (हि.स.)। २०२५ तमं वर्षं मध्यप्रदेशस्य कृते केवलं कलान्तरवर्षत्वेन सीमितं नाभवत्, अपि तु उपलब्धीनां, आत्मविश्वासस्य तथा वैश्विक-परिचयस्य एतादृशं सोपानं सिद्धम्, येन प्रदेशः देशे विदेशे च नूतनां प्रतिष्ठां प्राप्तवान्। अस्यां दिशि एकं महत्त्वपूर्णम् उपलब्धिपृष्ठं पन्नाजनपदस्य तथा तेन सम्बद्धस्य बुन्देलखण्डप्रदेशस्य भूमिना प्रदत्तम्। पन्नाजनपदस्य हीरकाणां भौगोलिक-सूचकाङ्क-चिह्नस्य (जी.आई. टैग्) प्राप्तिः अस्य परिवर्तनस्य सर्वाधिकं दीप्तिमन्तमुदाहरणं सञ्जातम्।
जी.आई.टैग्-घोषणानन्तरं मुख्यमन्त्री डॉ.मोहनयादवः एतत् मध्यप्रदेशस्य कृते ऐतिहासिकं क्षणम् इति निर्दिश्य अवदत्- “पन्ना-हीरकाणि केवलं खनिजद्रव्याणि न सन्ति, अपि तु प्रदेशस्य परिचयस्य, परम्परायाः तथा आत्मनिर्भरत्वस्य प्रतीकानि सन्ति। जी.आई.टैग्-प्राप्त्या पन्ना-हीरकाणि अधुना वैश्विकस्तरे मध्यप्रदेशस्य नाम प्रकाशयिष्यन्ति तथा स्थानीयजनानां जीवने स्थायिनीं समृद्धिं जनयिष्यन्ति।” अपरस्मिन् अवसरेऽपि मुख्यमन्त्री डॉ.मोहनयादवः अवदत्- “जी.आई.टैग्-प्राप्त्या न केवलं हीरकाणां ब्राण्ड्-मूल्यं वर्धिष्यते, अपि तु यूना कृते रोजगाराः, निर्मातृणां कृते परिचयः, प्रदेशस्य कृते च नूतना आर्थिक-दिशा प्राप्ता भविष्यति।”
वस्तुतः २०२५ तमं वर्षं तद् आसीत्, यदा पन्ना-हीरकाणि इतिहासं वर्तमानं च एकत्र संयोजितवन्तः। शताब्देः पूर्वं मुगलकालादारभ्य ब्रिटिश-शासनपर्यन्तं पन्ना-हीरकाणि विश्वविख्यातानि आसन्, किन्तु आधुनिके भारते प्रथमवारं तेषां विधिकः अन्तर्राष्ट्रियः च परिचयः प्राप्तः। जी.आई.टैग्-चिह्नेन एतत् स्पष्टं यत् पन्ना-हीरकं केवलं “हीरकं” न भवति, अपि तु विशिष्टं भौगोलिकधरोहरमस्तिस्ति, यस्य गुणवत्तायाः उत्पत्तेः च अधुना आधिकारिकं प्रमाणमस्ति।
२०२५ तमे वर्षे पन्ना-खनिभ्यः निर्गतानि हीरकाणि- यत्र १५ कैरेट्-अधिकभारयुक्तानि हीरकाणि अपि आसन्- तेषाम् अन्वेषणं राष्ट्रीयमाध्यमेषु चर्चाविषयः अभवत्। तदतिरिक्तं वर्षपर्यन्तं लघु-महान्ति बहूनि हीरकाणि प्राप्तानि इति वार्ताः आगताः। कदाचित् कस्यचित् कृषकस्य भाग्यं दीप्तिमन्तं जातम्, कदाचित् कस्यचित् महिला-श्रमिकायाः अथवा गोपालकस्य जीवनम् एकया अन्वेषणया परिवर्तितम्। एताः घटनाः एतत् स्पष्टं कृतवन्त्यः यत् पन्ना-हीरक-उद्योगं केवलं उद्योगे अथवा शासनपर्यन्तं सीमितं नास्ति, अपि तु सामान्यजनस्य स्वप्नैः अपि सम्बद्धः अस्ति।
मुख्यमन्त्रिणः कथनानुसारं- “पन्ना-हीरकाणि एतत् सिद्ध्यन्ति यत् मध्यप्रदेशस्य भूमौ अपाराः सम्भावनाः सन्ति। शासनस्य प्रयासः अस्ति यत् अस्याः प्राकृतिक-सम्पदायाः लाभः प्रत्यक्षतया स्थानीयजनाः प्राप्नुवन्ति।” एतत् वक्तव्यं २०२५ तमे वर्षे तस्याः नीत्याः सङ्केतः आसीत्, यस्यां शासनं पारदर्शी-नीलामी, वैध-खननं तथा स्थानीय-सहभागितां विशेषतया प्रोत्साहितवान्।
उल्लेखनीयं यत् राष्ट्रियस्तरे पन्ना-हीरकाणि तथा जी.आई.टैग् आत्मनिर्भरभारतस्य विचारधारया सह सम्बद्धानि कृतानि। भारतम्, यः दीर्घकालात् विश्वस्य महान् हीरक-कर्तन-संशोधन-केन्द्रम् आसीत्, अधुना प्राकृतिक-हीरक-स्रोतः अपि इति स्वस्थानं सुदृढं कर्तुं प्रवृत्तः दृश्यते। २०२५ तमे वर्षे एषः सन्देशः प्रसारितः यत् भारतं केवलम् आयातित-कच्च-हीरकैः निर्भरः नास्ति, अपि तु तस्य स्वकीया विशिष्टं प्राकृतिक-धरोहरम् अपि अस्ति।
वैश्विक-दृष्ट्या अवलोकनेन जी.आई. टैग्-चिह्नेन पन्ना-हीरकं अन्ताराष्ट्रिय-विपणे विशिष्टं परिचयं प्राप्तम्। शासनस्तरे अपि एतदनुभूतं यत् हीरकं केवलं खननपर्यन्तं सीमितः विषयः नास्ति। २०२५ तमे वर्षे “डायमण्ड्-पर्यटनम्”, कौशलविकासः, रत्न-आभूषण-प्रशिक्षणम् तथा स्थानीय-निर्मातृणां प्रोत्साहनम् इत्यादिषु योजनासु विचारः कृतः। एषा चिन्तनधारा सूचयति यत् मध्यप्रदेशः अधुना हीरकाणि समग्र-विकास-नमूनारूपेण पश्यति।
एताः सर्वाः घटनाः, वक्तव्याः तथा उपलब्धयः एकत्र अवलोक्य स्पष्टं भवति यत् २०२५ तमं वर्षं मध्यप्रदेशस्य कृते सफलतायाः वर्षम् आसीत्। एतत् वर्षं तस्य परिवर्तनस्य प्रतीकं जातम्, यदा पन्ना-हीरकाणि केवलं समाचार-शीर्षकाः नाभवन्, अपि तु नीतिः, परिचयः तथा विकासस्य केन्द्रबिन्दवः अभवन्। जी.आई.टैग्-चिह्नेन पन्नाजनपदः वैश्विकमानचित्रे स्थापितः, मुख्यमन्त्री-शासनयोः उत्साहवर्धकवक्तव्यैः च अयं विश्वासः दत्तः यत् एषा उपलब्धिः केवलम् आरम्भः एव। अन्ततः वक्तुं शक्यते यत् २०२५ तमे वर्षे पन्ना-हीरकाणां दीप्त्या मध्यप्रदेशस्य परिचयं नूतनमुन्नतं प्राप्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता