Enter your Email Address to subscribe to our newsletters


- राज्यपालः अकरोत् ब्लाइंड महिला टी-20 विश्वचषकस्य-2025 विजेतॄणां सम्माननम्
- राष्ट्रियदलस्य प्रदेशीयाक्रीडिनां लोकभवने सौजन्यमेलनम्
भोपालम्, 29 दिसम्बरमासः (हि.स.) ।
मध्यप्रदेशस्य राज्यपालः मंगुभाई-पटेलोऽवदत् यत् ब्लाइण्ड्-महिला-टी–20 विश्वकप् 2025 इत्यस्य विजेता-दलस्य कन्यकाः महिला-सशक्तीकरणस्य प्रतीकाः सन्ति। कार्यक्रमे विजेत्रीः भवितुम् इति दिव्याङ्गजनानां साहसस्य दिव्यतायाश्च उत्कृष्टं दारणम्। एतासां कन्यकानां उपलब्धयः प्रत्येकस्य देशवासिनः कृते प्रेरणाया गौरवस्य च विषयः। तेनोक्तं यत् दिव्याङ्ग-महिला-क्रीडकाभिः मध्यप्रदेशस्य देशस्य च नाम विश्व-स्तरे दीप्तीकृतम्।
राज्यपालः पटेलः सोमवासरे राष्ट्रिय- ब्लाइण्ड्-महिला-टी–20-दलस्य प्रदेश-खिलाडिभिः सुषमा-पटेल्, सुनीता-सराठे, दुर्गा-येवले इत्यैः लोकभवने सह चर्चा अकुर्वत्। राज्यपालः पटेलः एतेषां त्रयाणां आक्रीडिनां शाल्-स्मृतिचिह्नयोः प्रदानेन अभिनन्दनं कृतवान्। तेन आक्रीडीनां तेषां प्रशिक्षकस्य च उत्साहवर्धनं कृतम्। राज्यपालः ताः सर्वाः अभिनन्द्य तेषां उज्ज्वल-भविष्याय शुभकामनाः अपि दत्तवान्।
भारतीय-महिला (ब्लाइण्ड्) क्रिकेट-दलेन 23 नवम्बर् 2025 तिथौ कोलम्बो-नगरे आयोजिते टी–20 विश्वकपे अन्तिम-स्पर्धायां नेपालं पराजित्य ऐतिहासिकी जयः अभिलिखिता आसीत्। अस्मिन् राष्ट्रिय-दले मध्यप्रदेशस्य नर्मदापुरम्-जनपदस्य सुनीता-सराठे, दमोह-जनपदस्य सुषमा-पटेल्, बैतूल्-जनपदस्य दुर्गा-येवले इत्येताः प्रतिभावत्यःक्रीडिकाः सम्मिलिताः आसन्।
हिन्दुस्थान समाचार