Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणः उपस्थितौ जिला प्रशासनं, एसईसीएल एवं ईडीसीआईएल इत्येषां मध्ये सहमतिः हस्ताक्षरिता
रायपुरम् 29 दिसंबरमासः (हि.स.)।
छत्तीसगढराज्यस्य मुख्यमन्त्रिणः विष्णुदेवसायस्य सन्निधौ रविवासरस्य सायं बगियानगरे जशपुरजनपदस्य शासकीयविद्यालयेषु गुणवत्तायुक्तान्याधुनिकानि च शिक्षणसाधनानि उपलब्धानि स्युः इति उद्देश्येन महत्त्वपूर्णा त्रिपक्षीया सहमतिः सम्पन्नः। विद्यालयेषु सङ्गणकाधारितशिक्षायाः प्रोत्साहनार्थं जशपुरजनपदप्रशासनम् एस ई सी एल इति संस्थाऽपि ई डी सी आई एल नाम संस्था च इति तयोर्मध्ये त्रिपक्षीयममौ सहमतिपत्रे हस्ताक्षराणि कृतानि।
अस्मिन् अवसरे जनपदप्रशासनस्य प्रतिनिधिरूपेण कलेक्टर रोहितव्यासः एस ई सी एल इत्यस्य पक्षतः महाप्रबन्धकः सी एम वर्मा नाम तथा ई डी सी आई एल इत्यस्य पक्षतः परियोजनानिर्देशकः विकाससहरावत इति हस्ताक्षरान् अकुर्वन्। मुख्यमन्त्री सायनामधेयः अवदत् यत् आधुनिकया प्रौद्योगिक्या शिक्षां रोचकाम् प्रभावीं च कर्तुं कालस्य आवश्यकता विद्यते। तेन ग्राम्यदूरतमप्रदेशेषु वसतां बालकानामपि नगरस्थबालकानामिव उत्तमानि शैक्षणिकसंसाधनानि लभेरन्। अस्याः पहलायाः प्रशंसा कृत्वा सः अवदत् यत् अनेन विद्यार्थीनां नवोन्मेषः जिज्ञासा च तथा तेषां तांत्रिकदक्षता अपि विकासं गमिष्यति यत् तेषामुत्तमभविष्यस्य दृढं आधारभूतं भविष्यति।
अस्य सहमतिपत्रस्य अन्तर्गते जशपुरजनपदस्य चयनितेषु शासकीयविद्यालयेषु चरणशः इंटरएक्टिवपैनलनाम उपकरणानि संस्थाप्यन्ते। एतैः उपकरणैः सह शिक्षकाः डिजिटलसामग्रीं चलचित्राणि प्रस्तुतीकरणानि ई लर्निंगसंसाधनांश्च उपयुज्य कक्ष्याशिक्षणं रोचकं सरलञ्च प्रभावी च कर्तुं शक्नुयुः। समझौतुपत्रे उपकरणस्थापनेन सह तेषां प्रशिक्षणसञ्चालननियमितसम्भारसेवायाः व्यवस्थाः अपि समाविष्टाः सन्ति येन उपकरणानां सततं प्रभावीञ्च उपयोगं सुनिश्चितुं शक्येत।
अस्य परियोजनायै एस ई सी एल संस्थया सी एस आर विभागतः पञ्चकोटी रूप्यकाणां निधिः अनुमोदितः यस्याः अन्तर्गते जनपदे एकसहष्ठ्यधिकद्विशतं इंटरएक्टिवपैनल उपकरणानि स्थापयिष्यन्ति। अनेन उपक्रमेण जनपदस्य शतशः विद्यार्थी गुणवत्तायुक्तां डिजिटलशिक्षां प्राप्स्यन्ति। कलेक्टर रोहितव्यासः एस ई सी एल ई डी सी आई एल इत्युभयसंस्थयोः सहयोगाय कृतज्ञतां व्यक्त्वा आह यत् अस्य परियोजनाया फलतः विद्यार्थीनां शैक्षणिकस्तरे उल्लेखनीयः सुधारो दृश्यः भविष्यति।
हिन्दुस्थान समाचार