Enter your Email Address to subscribe to our newsletters



पूर्वी सिंहभूमः, २९ दिसम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः त्रिदिवसीय-झारखण्ड-भ्रमणस्य द्वितीयदिवसे सोमवासरे राञ्चीस्थितलोकभवनात् जमशेदपुरं प्राप्नोत्। सोनारीविमानपत्तने राष्ट्रपतेः राज्यपालः सन्तोषकुमारगङ्गवारः तथा मुख्यमन्त्री हेमन्तसोरेनः पुष्पगुच्छैः स्वागतं कृतवन्तौ। अस्मिन् अवसरे उपायुक्तः कर्णसत्यार्थिना सह वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्।
सोनारी-विमानपत्तनात् राष्ट्रपतेः यानसमूहः करनडीहस्थितं दिशोमजाहेरं प्रति प्रस्थितः, यत्र तया संथाली-समाजस्य २२ तमः ‘पारसीमाहासमारोहस्य ओलचिकीलिपेः शताब्दी-वर्ष-समारोहस्य उद्घाटनमकरोत्। अस्मिन् कार्यक्रमे राज्यपालः सन्तोषगङ्गवारः तथा मुख्यमन्त्री हेमन्तसोरेनः अपि विशेषरूपेण उपस्थितौ आस्ताम्। अस्मिन् सांस्कृतिक-आयोजने संथाली-समाजस्य समृद्ध-परम्परायाः तथा भाषायाः संरक्षणे विशेषं बलं प्रदत्तम्।
कार्यक्रमानन्तरं राष्ट्रपतिः सर्किट्-हाउस प्रति गमिष्यति। ततः परं आदित्यपुर-स्थिते राष्ट्रीय-प्रौद्योगिकी-संस्थाने (एन.आइ.टी.) तस्याः अपरः कार्यक्रमः प्रस्तावितः अस्ति, यत्र सा विशेष-कार्यक्रमे भागं ग्रहीष्यति। राष्ट्रपतेः भ्रमणं दृष्ट्वा कठोरसुरक्षा-व्यवस्थाः कृताः सन्ति, तथा तस्याः यानसमूहे प्रायः पञ्चचत्वारिंशत् वाहनानि सन्ति। राष्ट्रपतेः आगमनात् जनपदे उत्साहस्य गौरवस्य च वातावरणं दृष्टिगोचरं जातम्।
हिन्दुस्थान समाचार / ANSHU GUPTA