Enter your Email Address to subscribe to our newsletters

पूर्वी सिंहभूमः, 29 दिसंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः सोमवासरे जमशेदपुरे करनडीह स्थिते दिशोम् जाहेरथान प्राङ्गणे आयोजिते द्वाविंशतितमे सन्ताली परसी माहा तथा ओल चिकी लिपेः शताब्दी समारोहे संथाली भाषया गीतं गात्वा वातावरणं सुरमयं कृतवती। स्वस्य भाषणस्य आरम्भं सा संथाली नेहोर गीतस्य “जोहार जोहार आयो…” इत्यनेन कृत्वा प्रायः त्रिमिनुट पर्यन्तं गीतं गायत्। तस्मिन् काले उपस्थितजनाः मन्त्रमुह्यन्तः राष्ट्रपतिं श्रृण्वन्तोऽतिष्ठन्।
ऑल इण्डिया सन्ताली राइटर्स असोसिएशन तथा दिशोम् जाहेरथान समितेः संयुक्त तत्वावधाने आयोजिते कार्यक्रमे राष्ट्रपतिः उक्तवती यत् करनडीहम् आगमनात् पूर्वं सा जाहेर आयो इत्यस्मै प्रणामं कृतवती तथा गुरु गोम्के पण्डित रघुनाथ मुर्मु इत्यस्मै श्रद्धाञ्जलिं दत्तवती। स्वजीवनसंघर्षान् निर्दिश्य सा अवदत् यत् समाजस्य जनानां प्रेम तथा इष्टदेवताभ्यां प्रदत्तं आशीर्वाद एव तां एतावत् स्थानपर्यन्तं नीतवान्। ओल चिकी लिपिं संथाली समाजस्य पहचानम् स्वाभिमानः ऐक्यस्य च दृढं आधारं इति सा अभ्यधात्।
राष्ट्रपतिः मुर्मु ऑल इण्डिया सन्ताली राइटर्स असोसिएशन नाम्नः संस्थायाः योगदानं प्रशस्य अवदत् यत् एतत् संगठनं दीर्घकालं यावत् आदिवासी स्वाभिमानस्य अस्तित्वस्य च रक्षणार्थं निरन्तरं कार्यं करोति। सा संविधानस्य संथाली ओल चिकी अनुवादं निर्दिश्य उक्तवती यत् यदा विधानानां अधिकाराणां च जानकारी मातृभाषायां भवति तदा समाजः सशक्तो भवति तथा अज्ञानवशात् निर्दोषानां दण्ड प्राप्तेः परित्राणं शक्यते। अवदत् च यत् संथाली भाषा संविधानस्य अष्टम्यां अनुसूच्यां स्थिताऽस्ति अतः राष्ट्र परिचालक नियम कानूनानां जानकारी अपि संथाली समाजाय स्वभाषायामेव लभ्यताम्। सा चिन्ताम् अपि व्यक्तवती यत् विधिज्ञानाभावेन अनेकाः निर्दोषा जना एव कारागारं प्राप्ताः।
सा उक्तवती यत् केवलं भारतदेशे न अपि तु विश्वस्यानेकेषु भागेषु अपि संथाल समाजस्य जनाः वसन्ति शिक्षित युवानां संख्या च निरन्तरम् वर्धते। अतः स्वाधिकाराणां भाषा संस्कृतीनां च संवर्धनस्य दायित्वं समाजस्य युवानामेव अस्ति। ओल चिकी लिपेः संथाली समाजस्य च संरक्षण विकासयोः कृते अनवरतं प्रयत्नं करिष्यामि इति सा विश्वासं दत्तवती।
समारोहेस्मिन् सहभागी प्रदेश राज्यपालः सन्तोषकुमारः गंगवार अवदत् यत् एतत् आयोजनं केवलं सांस्कृतिक उत्सवः न अपि तु जनजातीय संस्कृतेः जीवन्तता गौरवञ्च सूचयति। सः राष्ट्रपतिः मुर्मु नाम्नः जीवनसंघर्षं सर्वस्य आदिवासी समाजस्य प्रेरणास्रोतं इति निर्दिश्य उक्तवान् यत् जमशेदपुरम् साम्प्रदायिक सौहार्दस्य सांस्कृतिक ऐक्यस्य च प्रतीकम्। सः स्मारितवान् यत् वर्षे 2003 तमे अटल बिहारी वाजपेयी कार्यकाले संथाली भाषा संविधानस्य अष्टम्यां अनुसूच्यां निबद्धा आसीत् तथा ओल चिकी लिपिः अस्माकं अमूल्या सांस्कृतिक विरासत् अस्ति। राज्यपाल भवनं जनजातीय भाषा संस्कृतीनां संरक्षणे सदा सज्जं भविष्यति इति अपि अवदत्।
मुख्यमन्त्री हेमन्त सोरेन् स्वस्य भाषणे अवदत् यत् राष्ट्रपतिः द्रौपदी मुर्मोः संथाली भाषा ओल चिकी लिपिश्च विकासे योगदानं ऐतिहासिकम्। संविधानस्य संथाली अनुवादः समाजस्य कृते मील पत्थर समानः इति कथयन् सः अवदत् यत् गुरु गोम्के पण्डित रघुनाथ मुर्मु इत्यनेन संथाली समाजाय लिपिः दत्ता येन तेषां पहचानं दृढीकृता तस्मै समाजः कृतज्ञः अस्ति। मुख्यमन्त्रिणा उक्तं यत् राज्यसरकारापि जनजातीय भाषा संस्कृतीनां संरक्षणार्थं निरन्तरं प्रयत्नशीलाऽस्ति।
समारोहे समापनावसरे राष्ट्रपतिः द्रौपदी मुर्मुः संथाली साहित्यं ओल चिकी लिपिं च समृद्धीकुर्वन्तः साहित्यकारान् शिक्षकाश् साधकांश्च सम्मानितवती। सम्मानितेषु शोभनाथ बेसरा पद्मश्री डा दमयंती बेसरा मुचीрам् हेम्ब्रॉम् भीमवार् मुर्मु साखी मुर्मु रामदास् मुर्मु चुंडा सोरेन् सिपाही छोतराय बास्के निरञ्जन हंसदा बी बी सुन्दरमन सौरव शिवशंकर कण्डेयाङ् सी आर माझी इत्येवं अनेकेषां नामानि सम्मिलितानि।
---------------
हिन्दुस्थान समाचार