शिक्षा-क्षेत्रे प्रदेशं प्रथम-स्थाने रक्षणं सर्वकारस्य लक्ष्यम् - केवलसिंहः पठानिया
धर्मशाला, 29 दिसम्बरमासः (हि. स.)।प्रदेशं शिक्षाक्षेत्रे देशे अग्रणीकरणं प्रदेश-सर्वकारस्य प्रमुखं लक्ष्यं वर्तते। एतस्यां दिशि मुख्यमन्त्री तथा शिक्षा-मन्त्री च पूर्णतया प्रतिबद्धौ स्तः। एतान् विचारान् शाहपुर-विधानसभा-क्षेत्रान्तर्गतं राजकीय-मॉड
स्कूल के वार्षिकोत्सव में मौजूद उपमुख्य सचेतक केवल पठानिया को सम्मानित करते हुए स्टाफ।


धर्मशाला, 29 दिसम्बरमासः (हि. स.)।प्रदेशं शिक्षाक्षेत्रे देशे अग्रणीकरणं प्रदेश-सर्वकारस्य प्रमुखं लक्ष्यं वर्तते। एतस्यां दिशि मुख्यमन्त्री तथा शिक्षा-मन्त्री च पूर्णतया प्रतिबद्धौ स्तः। एतान् विचारान् शाहपुर-विधानसभा-क्षेत्रान्तर्गतं

राजकीय-मॉडल्-वरिष्ठ-माध्यमिक-विद्यालये, सिहुँवा-ग्रामे आयोजिते वार्षिक-पारितोषिक-वितरण-समारोहावसरेसोमवासरे शाहपुर-विधायकः, उपमुख्य-सचेतकश्चकेवलसिंहः पठानियाउक्तवान्।

केवलसिंहः पठानिया अवदत् यत् शिक्षा केवलं पुस्तकीय-ज्ञानपर्यन्तं न सीमिता, अपि तु सा व्यक्ति-समाजयोः समग्र-विकासस्य सर्वाधिकं सशक्तं माध्यमम् अस्ति। शिक्षया एव सशक्त-व्यक्तेः, सशक्त-समाजस्य, सशक्त-राष्ट्रस्य च निर्माणं सम्भवति।

सऽअपि अवदत् यत् ग्रामीण-क्षेत्रेषु बालकेभ्यः गुणवत्तायुक्त-शिक्षां प्रदातुं प्रदेश-सर्वकारः पूर्ण-गाम्भीर्येण कार्यं करोति। अनेनैव उद्देश्येन युक्तिकरणम्, क्लस्टर्-प्रणाली, प्रथम-कक्ष्यातः एव आङ्ग्ल-शिक्षणम् इत्यादयः महत्त्वपूर्णाः दूरदर्शिनश्च निर्णयाः स्वीकृताः। तदनन्तरं शिक्षा-विभागेन सहितं विविध-विभागेषु समये-समये पदोन्नतयः क्रियन्ते, तथा रिक्तेषु प्रधानाचार्य-पदेषु नियुक्तयः अपि क्रियन्ते।

केवलसिंहः पठानिया अवदत् यत् सांस्कृतिक-कार्यक्रमैः काङ्गड़ा-जनपदस्य लोक-संस्कृतेः, लोक-गीतानां लोक-नृत्यानां च प्रवर्धनमत्यन्तमावश्यकमस्ति।

स्वकीय-सांस्कृतिक-धरोहरास्य संरक्षणम् अस्माकं सर्वेषां सामूहिकं दायित्वमस्ति, येन आगामीवंशाः स्वमूलैः सह सम्बद्धाः तिष्ठेयुः।

सः अपि अवदत् यत् शाहपुर-उपमण्डल-कार्यालयस्य समीपेवार-मेमोरियल-इत्यस्य कार्यम् आरब्धं जातम्, यत् शीघ्रं स्थापितं भविष्यति। अतिरिक्ततया विद्यालये द्वयोः अतिरिक्त-कक्षयोः निर्माणस्य घोषणां कृत्वा द्वयोः शौचालययोः आवश्यकतां शीघ्रं पूरयिष्यामीति आश्वासनम् अपि अददात्।

हिन्दुस्थान समाचार / अंशु गुप्ता