मधयप्रदेशः मुख्यमंत्री अद्य उज्जैने विकास कार्याणां करिष्यति भूमिपूजनं एवं लोकार्पणं च
उज्जैनम्, 29 दिसम्बरमासः (हि.स.)। अद्य सोमवासरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः उज्जयिनी-प्रवासे भविष्यन्ति। अस्मिन् अवसरे ते सिंहस्थस्य-२०२८ अन्तर्गतं विविधानां निर्माणकार्यानां भूमिपूजनं लोकार्पणं च करिष्यन्ति। तदनुसारं मुख्यमन्त्री डॉ॰
सीएम मोहन यादव (फाइल फोटो)


उज्जैनम्, 29 दिसम्बरमासः (हि.स.)। अद्य सोमवासरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः उज्जयिनी-प्रवासे भविष्यन्ति। अस्मिन् अवसरे ते सिंहस्थस्य-२०२८ अन्तर्गतं विविधानां निर्माणकार्यानां भूमिपूजनं लोकार्पणं च करिष्यन्ति। तदनुसारं मुख्यमन्त्री डॉ॰ यादवः Utkarshujjain.com इति पोर्टलस्य लोकार्पणं, कौशलसेतु उद्योगनेतृत्वयुक्त-कौशल-विकास-कार्यक्रमस्य शुभारम्भं तथा “प्रोजेक्ट् स्वाध्याय” नामकस्य कार्यक्रमस्य अपि शुभारम्भं करिष्यन्ति।

निश्चितकार्यक्रमानुसारं मुख्यमन्त्री डॉ॰ यादवः मध्यान्हे त्रीवदने नानाखेडा-क्रीडाङ्गणं प्राप्स्यन्ति, यत्र ते १२९ कोटि रूप्यकाणां व्ययेण क्रियमानानां विकासकार्यानां निर्माणकार्यानां च भूमिपूजनं च लोकार्पणं च करिष्यन्ति। एषः कार्यक्रमः नगरपालिकानिगमेन उज्जयिन्यां नानाखेडा-क्रीडाङ्गणे आयोजितः। मुख्यमन्त्रिणा डॉ॰ यादवेन Utkarshujjain.com-पोर्टलस्य अनावरणं कौशलसेतु उद्योग-नियोजित-कौशल-विकास-कार्यक्रमस्य डिजिटल-शुभारम्भश्च करिष्यते।

हिन्दुस्थान समाचार