वर्षे 2025 मध्ये मध्यप्रदेशेन नूतनं व्याघ्र-अभयारण्यं प्राप्तम्, संख्याऽधुना नव अभवत्
भोपालम्, 29 दिसम्बरमासः (हि.स.)। मध्यप्रदेशः यथैव “व्याघ्र-राज्यम्” इति न व्यर्थं कथ्यते। अस्मिन् राज्ये देशे सर्वाधिक-व्याघ्र-सङ्ख्या तथा सर्वाधिक-व्याघ्र-अभयारण्य-संख्या अस्ति। वन्यजीव-संरक्षण-दिशायां वर्षे 2025 मध्ये मध्यप्रदेशेन पुनः एकं महत्त्
राज्‍य की टाइगर स्टेट की पहचान और मजबूत


भोपालम्, 29 दिसम्बरमासः (हि.स.)। मध्यप्रदेशः यथैव “व्याघ्र-राज्यम्” इति न व्यर्थं कथ्यते। अस्मिन् राज्ये देशे सर्वाधिक-व्याघ्र-सङ्ख्या तथा सर्वाधिक-व्याघ्र-अभयारण्य-संख्या अस्ति। वन्यजीव-संरक्षण-दिशायां वर्षे 2025 मध्ये मध्यप्रदेशेन पुनः एकं महत्त्वपूर्णं पादम् अग्रे नीतम्। वर्षे 2025 मध्ये शिवपुरी-जिलास्थितः माधव-राष्ट्रीय-उद्यानः आधिकारिकरूपेण व्याघ्र-अभयारण्यत्वं प्राप्तवान्, येन मध्यप्रदेशे व्याघ्र-अभयारण्य-संख्या नव अभवत्। अनेन सह मध्यप्रदेशः भारतस्य तथा विश्वस्तरस्य व्याघ्र-संरक्षणे अग्रणी-राज्यत्वेन स्वस्थानं अधिकं सुदृढं कृतवान्।

मार्च-मासे 2025 मध्ये अस्य क्षेत्रस्य आधिकारिकरूपेण भारतस्य 58तमं तथा मध्यप्रदेशस्य नवमं व्याघ्र-अभयारण्यत्वं घोषितम्। एतत् अभयारण्यं शिवपुरी-जिल्लायां स्थितम् अस्ति तथा ऐतिहासिकं माधव-राष्ट्रीय-उद्यान-क्षेत्रम् आवृणोति। चम्बल-अञ्चले स्थितं एतत् क्षेत्रं दीर्घकालात् समृद्ध-जैव-विविधतायाः, सरांसि, तृणभूमयः, मिश्र-वनानि च कारणेन प्रसिद्धम् अस्ति। अधुना व्याघ्र-अभयारण्य-मान्यतया एतत् क्षेत्रं व्याघ्र-संरक्षण-पुनर्वासयोः नूतनं केन्द्रम् अभवत्।

माधव-व्याघ्र-अभयारण्यस्य कुल-क्षेत्रफलं प्रायः 375 वर्ग-किलोमीटरमितम् अस्ति, यस्मिन् कोर-क्षेत्रं बफर-क्षेत्रं च समाविष्टम्। एतत् क्षेत्रं व्याघ्राणां कृते विशेषतः महत्त्वपूर्णं मन्यते, यतः एतत् उत्तर-भारतस्य मध्य-भारतस्य च वन्यजीव-वीथिषु (वाइल्डलाइफ कॉरिडोर) संयोजकं भवितुम् अर्हति। विशेषज्ञानां मते, भविष्ये राजस्थान-उत्तरप्रदेशाभ्यां आगच्छन्तां व्याघ्राणां कृते अपि एतत् सुरक्षितं निवासस्थानं भवितुम् शक्नोति, येन व्याघ्राणां आनुवंशिक-विविधता संरक्षिता भविष्यति।

वर्षे 2025 मध्ये व्याघ्र-अभयारण्यत्व-घोषणानन्तरं माधव-क्षेत्रे चरणबद्ध-रीत्या व्याघ्र-स्थापन-प्रक्रिया आरब्धा। प्रारम्भिक-चरणे अन्येभ्यः व्याघ्र-अभयारण्येभ्यः कतिपयान् व्याघ्रान् आनयित्वा अत्र मुक्ताः कृताः, अनन्तरं निरीक्षण-व्यवस्था अपि सुदृढीकृता। कथ्यते यत् अल्प-काले एव अत्र व्याघ्र-सङ्ख्या-वृद्धेः संकेताः दृश्यन्ते, येन अस्य क्षेत्रस्य अनुकूल-पर्यावरण-व्यवस्था स्पष्टा भवति। व्याघ्रैः सह अत्र तेंदुआः, भालूकाः, चीतलाः, सांभराः, नीलगवाः तथा नानाविधानि पक्षिणः अपि वसन्ति, येन एतत् अभयारण्यं बहुआयामि-वन्यजीव-क्षेत्रं भवति।

उल्लेखनीयं यत् राज्ये पूर्वमेव कान्हा, बांधवगढ़, पेंच, सतपुड़ा, पन्ना, संजय–दुबरी, वीरांगना-दुर्गावती, रातापानी-इत्येतानि व्याघ्र-अभयारण्याणि सन्ति, अधुना तेषां पश्चात् माधव-व्याघ्र-अभयारण्यं स्थापितम्। एषा उपलब्धिः राज्य-सरकारस्य वन-नीतेः संरक्षण-प्रयत्नानां च द्योतकं अस्ति, अपि च दीर्घकालात् सञ्चालितस्य “प्रोजेक्ट् टाइगर्” इत्यस्य सफलतायाः प्रमाणं भवति।

नूतन-व्याघ्र-अभयारण्य-घोषणया पर्यटन-क्षेत्रे अपि नूतनाः सम्भावनाः उद्घाटिताः सन्ति। शिवपुरी-प्रदेशे समीपवर्ती-क्षेत्रेषु च इको-पर्यटनस्य प्रोत्साहनं भविष्यति, येन स्थानिक-जनानां कृते रोजगार-अवसराः सृज्यन्ते। मार्गदर्शकाः, वाहन-चालकाः, होटल-व्यवसायिनः, होम-स्टे-सञ्चालकाः, हस्तशिल्प-काराः च प्रत्यक्ष-लाभं प्राप्स्यन्ति। सह एव बफर-क्षेत्र-विकासः, मार्ग-सुरक्षा, कैमरा-ट्रैप्, ड्रोन-निरीक्षणं, वन-कर्मचारि-संख्या-वृद्धिः इत्यादयः उपायाः अपि सरकारेण स्वीक्रियन्ते।

मुख्यमन्त्री डॉ. मोहन-यादवः अस्मिन् विषये उक्तवान् यत् मध्यप्रदेशः वन्यजीव-संरक्षणे नूतनान् कीर्तिमानान् स्थापयति। माधव-व्याघ्र-अभयारण्येन चम्बल-अञ्चले वन्यजीव-समृद्धिः वर्धिष्यते। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य नेतृत्वे संरक्षण-प्रयत्नानां फलस्वरूपेण राज्यं नवमं राष्ट्रीय-व्याघ्र-अभयारण्यं प्राप्तवान्। “राज्य-सर्वकारस्य प्रयासैः पर्यटन-विकासः, रोजगार-सृजनं तथा ग्वालियर–चम्बल-क्षेत्रे नूतन-विकास-परियोजनानां मार्गः प्रशस्तः भविष्यति” इति अपि तेन उक्तम्।

मुख्यमन्त्री यादवः अपि अवदत् यत् मध्यप्रदेशे भारतस्य तथा विश्वस्य च सर्वाधिक-व्याघ्राः सन्ति, तस्मात् अस्य “व्याघ्र-राज्यम्” इति उपाधिः प्राप्ता। यत् क्षेत्रं पूर्वमेव भल्लूकैः, चित्रकैः, हरिणैः, चिंकारैः, वृकैः, शृगालैः, साहीभिः, अजगरैः, गृध्रैः च प्रसिद्धम् आसीत्, तत् अधुना व्याघ्र-पुनर्वासस्य अपि केन्द्ररूपेण परिचितं भविष्यति। अस्मिन् सन्दर्भे केन्द्रीय-मन्त्री ज्योतिरादित्य-सिन्धिया-महोदयः ग्वालियर–चम्बल-प्रदेशाय ऐतिहासिकस्य माधव-व्याघ्र-अभयारण्यस्य सौगातं दत्तवतः मुख्यमन्त्री यादवस्य कृतज्ञतां व्यक्तवान्। तस्य कथनं यत् पन्ना-व्याघ्र-अभयारण्यस्य अनन्तरं एषः मध्यप्रदेशस्य तृतीयः राष्ट्रीय-उद्यानः अस्ति यः पुनर्जीवितः क्रियते।

समग्रतः, वर्षः 2025 मध्यप्रदेशे माधव-व्याघ्र-अभयारण्य-रूपेण व्याघ्राणां कृते सुरक्षितं नूतनं निवासस्थानं दत्तवान्। एषः प्रयासः “व्याघ्र-राज्य” इति परिचयात् अग्रे नीत्वा “व्याघ्र-संरक्षण-आदर्श-राज्य”रूपेण मध्यप्रदेशस्य प्रतिष्ठां स्थापयितुं दृढं पादं भवति। आगामिषु वर्षेषु एतत् दृष्टव्यं भविष्यति यत् कथं एषः नूतनः व्याघ्र-अभयारण्यः व्याघ्र-संख्या-वृद्धिं, जैव-विविधता-संरक्षणं तथा स्थानिक-विकासं च सन्तुलितरूपेण साधयिष्यति।

हिन्दुस्थान समाचार