Enter your Email Address to subscribe to our newsletters

- स्वयात्रायाम् ऐतिहासिक समुद्री मार्गाणां पुनर्मूल्यांकनं करिष्यति
नव दिल्ली, 29 दिसंबरमासः (हि.स.)। भारतस्य प्राचीने नौकानिर्माणसमुद्रपरम्पराः पुनः साकारीकृत्य भारतीयनौसेनायाः प्राचीनपालपद्धत्या निर्मितं पोतं “कौण्डिन्य” इति सोमवारे गुजरातस्य पोरबन्दरनगरात् स्वस्य प्रथमं समुद्रयात्रां प्रतस्थे। एतत् पोतं ओमानदेशस्य मस्कटनगरपर्यन्तं गच्छन् प्रतीकात्मकतया तान् ऐतिहासिकान् समुद्रमार्गान् पुनर्मूल्ययिष्यति ये सहस्राब्दीयकालं भारतं विस्तीर्णेन हिन्दमहासागरेण संयोजितवन्तः। एतत्पोतं प्राचीनभारतीयनौकानां चित्रैः प्रेरित्य सर्वथा पारम्परिकया सिलातख्ततन्त्रेण निर्मितम्। आयएनएसवी कौण्डिन्य इतिहासस्य शिल्पकौशलस्य च आधुनिकनौसेनाकौशलस्य च दुर्लभः संयोगः अस्ति। अद्यतनपोताभ्यः भिन्नतया अस्य काष्ठफलका नारिकेलतन्तुभिः कृतेन रस्सेना सिव्यन्ते तथा प्राकृतिकरालया सीलितानि सन्ति। एतत् प्राचीनकाले भारतस्य तटेभ्यः हिन्दमहासागरे च प्रचलितां पोतनिर्माणपरम्परां दर्शयति। एषा प्राचीना तकनीका भारतीयनाविकान् आधुनिकनौवहनधातुविज्ञानयोः आगमात् पूर्वमेव पश्चिमएशिया अफ्रीका दक्षिणपूर्वएशिया च पर्यन्तं दीर्घयात्राः कर्तुं समर्थान् अकुरुत।
एषा परियोजना संस्कृतिमन्त्रालयेन भारतीयनौसेनया च होडीइनोवेशन्स् नाम्ना संस्थया च सह कृतत्रिपक्षीयस्मृतिपत्रेण आरब्धा। सा भारतस्य स्वदेशीज्ञानप्रणालीनां पुनः अन्वेषणं पुनर्निर्माणं च कर्तुं प्रायतः। मास्टरशिपराइट् बाबूशङ्करस्य मार्गदर्शनेन निर्मितं पोतं सर्वथा समुद्रे नौकायनयोग्यं महासागरे च संचरणसमर्थं च अस्ति। अस्य पोतस्य नाम पौराणिकनाविकस्य कौण्डिन्यस्य नाम्ना स्थापितम्, यस्य विषये प्राचीनकाले भारतात् दक्षिणपूर्वएशियायाः यावत् यात्रा कृता इति विश्वासः वर्तते। एतत्पोतं समुद्रराष्ट्ररूपेण भारतस्य ऐतिहासिकार्थस्य अपि प्रतीकम् अस्ति।
नौकायनपोतं “कौण्डिन्य” इति द्विसहस्रवर्षप्राचीनया पद्धत्या निर्मितम्। एतत् पोतं गुजरातस्य पोरबन्दरात् ओमानस्य मस्कटं यावत् चत्वारि शतानि कि.मी.ाधिकं द्विसप्तत्यधिकानि नॉटिकल् मील् समं प्रायः पञ्चदशदिनेषु यास्यति। पञ्चषष्टिफुटप्रमाणलम्बं द्वाविंशतिफुटप्रमाणविशालं त्रयोदशफुटोन्नतं च एतत्पोतं पञ्चाशत्तनभारम् अस्ति, यस्मिन् षोडश नाविकाः उपविश्य यात्रां करिष्यन्ति। अद्यतनसमारोहे मुख्यातिथिः आसन् पश्चिमनौसेनाकमाण्डस्य फ्लैगोफिसरकमाण्डिंगइनचीफ् वाइसअड्मिरल् कृष्णस्वामीनाथन। ओमानसल्तनत्तस्य दुत्यालयस्य राजदूतः इस्सा सालेह अब्दुल्ला सालेह अल् शिबानी नामकः अपि उपस्थितः आसीत्।----------------
हिन्दुस्थान समाचार