वार्षिकी : प्रधानमन्त्रीमोदीना मध्यप्रदेशस्य माहेश्वरीसाटिकायाः वैश्विक-प्रचारार्थं प्रयत्नं कृतम्
भोपालः, २९ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य परिचयरूपेण प्रतिष्ठिता माहेश्वरी-साटिकायाः कृते २०२५ तमं वर्षम् ऐतिहासिकं निर्णायकञ्च वर्षत्वेन उद्भूतम्। द्विशताधिकवर्षपुरातनीया अस्या स्वदेशी-हस्तकरघा-परम्परायाः राष्ट्रीय-सीमातः अग्रे वैश्विकमञ्चे नू
प्रधानमंत्री मोदी ने की मप्र की माहेश्वरी साड़ी के प्रचार की पहल


भोपालः, २९ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य परिचयरूपेण प्रतिष्ठिता माहेश्वरी-साटिकायाः कृते २०२५ तमं वर्षम् ऐतिहासिकं निर्णायकञ्च वर्षत्वेन उद्भूतम्। द्विशताधिकवर्षपुरातनीया अस्या स्वदेशी-हस्तकरघा-परम्परायाः राष्ट्रीय-सीमातः अग्रे वैश्विकमञ्चे नूतनपरिचयस्य स्थापनायां प्रधानमन्त्रीनरेन्द्रमोदीवर्यस्य प्रयत्नम् अत्यन्तं निर्णायिकं सिद्धम्। देवी-अहिल्याबाई-होलकरायाः त्रिशततम-जयन्ती-अवसरे आरब्धाः योजनाः घोषणाश्च माहेश्वरी-साटिकां पुनः भारतस्य सांस्कृतिक-आर्थिक-धरोहरस्य केन्द्रे स्थापयितवन्त्यः।

अहिल्याबाई-होलकर-परम्परया सह सम्बद्धं २०२५ तमं वर्षम्

माहेश्वरी-साटिकायाः कथा मालवा-प्रदेशस्य महान् शासिकायाः देवी-अहिल्याबाई-होलकरस्य परम्परया प्रत्यक्षतया सम्बद्धा अस्ति। अष्टादश-शताब्द्यां तया वर्तमान-खरगोन-जनपदे महेश्वरनगरे तन्तुवायैः सह मिलित्वा अस्याः साटिकायाः संरक्षणं प्रोत्साहनं च कृतम्। तस्याः शासनकाले माहेश्वरी-साटिका राजभवनेषु बहुमूल्य-उपहाररूपेण मन्यते स्म, ब्रिटिशकाले च यूरोपीय-गृहेष्वपि प्राप्यते स्म। २०२५ तमे वर्षे, यदा देशः अहिल्याबाई-होलकर इत्यस्याः त्रिशततम-जयन्तीम् आचरति स्म, तदैव माहेश्वरी-साटिकायाः आधुनिक-औद्योगिक-संरचनया सह ऐतिहासिकः संयोजनारम्भः अभवत्। अयं संयोगः परम्परायाः विकासस्य च सङ्गमस्य प्रतीकरूपेण मन्यते।

वस्तुतः २०२५ तमे वर्षे सर्वाधिकमहत्त्वपूर्णः उपलब्धिः धारजनपदे प्रधानमन्त्री-मेगा-एकीकृत-वस्त्र-प्रदेश-एवं-परिधान-उद्यानस्य (पी.एम्.मित्रा पार्क) आधारशिलान्यासः अभवत्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदीः स्पष्टमवदत् यत् एषा परियोजना माहेश्वरी-वस्त्र-उद्योगं देवी-अहिल्याबाई-होलकर इत्यस्याः समृद्धां परम्पराञ्च अग्रे नेष्यति। तेन स्वीय-सम्बोधने उक्तं यत् - “माहेश्वरी-वस्त्राणि मध्यप्रदेशस्य गौरवशालिनी परम्परा आसन्, अधुना पी.एम्.मित्रा-उद्यानमाध्यमेन एषा परम्परा वैश्विकस्तरे नूतनम् उड्डयनं प्राप्स्यति।” सः एतदपि स्मारितवान् यत् जी.आई.टैग्-प्राप्ता माहेश्वरी-साटिका कदाचित् राजभवनानां ब्रिटिश-गृहाणां च शोभा आसीत्, अद्यापि च भारतीय-वस्त्र-क्षेत्रस्य प्रेरणास्रोतः अस्ति।

एकस्मिन् स्थाने सम्पूर्णा वस्त्र-मूल्य-श्रृङ्खला

पी.एम्.मित्रा-उद्यानस्य सर्वाधिकं वैशिष्ट्यं यत् अत्र सम्पूर्णा वस्त्र-मूल्य-श्रृङ्खला एकस्मिन्नेव स्थाने उपलब्धा भविष्यति। प्रधानमन्त्रीमोदिना निर्दिष्टं यत् अस्मात् उद्यानात् कपासरेशमादि मूलद्रव्येषु सुलभा प्राप्तिः, गुणवत्तायाः परीक्षणं प्रमाणीकरणस्य सरलव्यवस्था, कताई, रूपरचना (डिज़ाइन), प्रसंस्करणं संवेष्टनञ्च, प्रत्यक्ष-निर्यात-व्यवस्था च सुनिश्चिता भविष्यति। सः अवदत्- “अत्र कताई, रूपरचना, प्रसंस्करणं च भविष्यति। निर्यातोऽपि अत्रैव भविष्यति। धारः विश्व-विपणे स्वां दीप्तिं प्रसारयिष्यति।” एषा घोषणा महेश्वर-प्रदेशस्य समीपवर्ती-तन्तुवायानां कृते आर्थिक-सुरक्षायाः नूतन-अवसराणां च सूचिका अस्ति।

५-एफ्-दृष्ट्या वैश्विक-विपणपर्यन्तम्

प्रधानमन्त्रीमोदिना वस्त्रोद्योगस्य कृते स्वसर्वकारस्य ५-एफ-दृष्टिः अपि पुनरुक्ता यत् क्षेत्रात् रेशम, रेशात् निर्माणी, निर्माणीतः नवीनता, नवीनतातः विदेशम्। एषा दृष्टिः माहेश्वरी-साटिकावत् पारम्परिक-कलाः स्थानीय-परिचयात् उत्क्षिप्य वैश्विक-ब्राण्डरूपेण स्थापयितुं महत्त्वपूर्णं पदक्षेपं दर्शयति। अनेन सह २०२५ तमे वर्षे एतदपि दृष्टं यत् माहेश्वरी-साटिका परम्परागत-वेषभूषातः परम् आधुनिक-नव्यता-रूपेणापि प्रस्तुताभवत्।

राष्ट्रीय-अन्ताराष्ट्रिय-नव्यता-प्रदर्शन्यः, ग्लोबल्-इन्भेस्टर्स्-समिट्, रूप-रचना-संस्थानानां सहयोगः च माध्यमीकृत्य सा युवासु वैश्विक-ग्राहकेषु च लोकप्रियतां प्राप्तवती। ई-कॉमर्स्-डिजिटल्-मञ्चानां माध्यमेन तन्तुवायात् ग्राहकपर्यन्तं प्रत्यक्ष-सम्पर्कः वर्धितः, मध्यस्थाः न्यूनाः अभवन्, तन्तुवायानाम् आयः च वर्धितः।

तन्तुवायानां कृते २०२५ वरदानरूपेण

अद्य महेश्वर-प्रदेशे सहस्रं हस्तकरघाः सक्रियाः सन्ति, सहस्रं परिवाराणाञ्च आजीविका माहेश्वरी-साटिकायाम् आश्रिता अस्ति। २०२५ तमे वर्षे प्राप्ता शासकीय-मान्यता, औद्योगिक-निवेशः, वैश्विक-प्रचारः च तन्तुवायानां हृदये नूतनाम् आशां जनयन्ति। नूतन-रोजगार-अवसराः, स्त्रीणां सहभागिता, निर्यात-सम्भावनाः च अस्य उद्योगस्य सुदृढं आधारं पुनः स्थापितवन्त्यः।

अत एव वक्तुं शक्यते यत् २०२५ तमं वर्षं राज्यस्य एतस्य पारम्परिक-कला-वस्त्र-धरोहरस्य माहेश्वरी-साटिकानां कृते वरदानरूपेण सिद्धम्। अहिल्याबाईहोलकरस्य ऐतिहासिकी परम्परा, प्रधानमन्त्रीमोदिना वैश्विकी दृष्टिः, तथा पी.एम्.मित्रा-उद्यान-योजनायाः कार्यान्वयनं- एतानि सर्वाणि मिलित्वा अस्याः पारम्परिक-साटिकायाः भविष्यस्य उद्योगरूपेण रूपान्तरणं कृतवन्तः। अयं वर्षः माहेश्वरी-साटिकायाः पुनर्जागरणस्य साक्षीभूत्वा भारतीय-हस्तकरघा-परम्परायाः वैश्विक-विस्तारस्य सुदृढाम् आधारशीलां स्थापयन् दृश्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता