प्रधानमन्त्री मोदी मणिपुरप्रदेशस्य द्वयोः महिलयोः प्रयासान् प्रशंसितवान्
नवदिल्ली, २९ दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इति “स्थानीयकौशलं, महत् प्रभावः” तथा “मणिपुरात् पुष्पोत्पादन-आदर्शः” इति सन्देशैः सह मणिपुरप्रदेशस्य द्वयोः महिलयोः प्रेरणादायकान् प्रयासान् प्रशंसन् उल
प्रधानमंत्री नरेन्द्र मोदी शुक्रवार को वीर बाल दिवस पर आयोजित कार्यक्रम को संबोधित करते हुए


नवदिल्ली, २९ दिसम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इति “स्थानीयकौशलं, महत् प्रभावः” तथा “मणिपुरात् पुष्पोत्पादन-आदर्शः” इति सन्देशैः सह मणिपुरप्रदेशस्य द्वयोः महिलयोः प्रेरणादायकान् प्रयासान् प्रशंसन् उल्लिखितवान्।

रविवासरे प्रसारितस्य ‘मन की बात’ कार्यक्रमस्य १२९ तमस्य सम्भागस्य अंशान् ज्ञानपयन् प्रधानमन्त्री अवदत् यदेषः मञ्चः तान् जनान् देशस्य पुरतः आनयनस्य माध्यमः अस्ति, ये स्वपरिश्रमेण पारम्परिककौशलान् वर्धयन्तस्सन्ति तथा स्थानीयसमुदायान् सशक्तं कुर्वन्ति। “स्थानीयकौशलं, महत् प्रभावः” इति विषयान्तर्गतं प्रधानमन्त्री मणिपुरस्य चुराचान्दपुरनगरस्य मार्गरेट् रामथारसीम इत्यस्याः कार्याणि प्रशंसितवान्।

सः अवदत् यत् मार्गरेट् मणिपुरस्य पारम्परिकोत्पादनानि, हस्तकलाः, बंसकाष्ठनिर्मितवस्तूनि च व्यापकदृष्ट्या प्रवर्धितवती। हस्तकलाकाररूपेण प्रारभ्य अद्य सा अनेकेषां जनानामाजीविकायाः माध्यमभवत्। तस्याः समूहे पञ्चाशताधिकाः कलाकाराः कार्यरताः सन्ति, तस्याः उत्पादनानि दिल्लीनगरेण सहितं देशस्य अनेकेषु राज्येषु स्वपरिचयं प्राप्तवन्तः।

प्रधानमन्त्री “मणिपुरात् पुष्पोत्पादन-आदर्शः” इति रूपेण सेनापति-जनपदस्य चोखोने क्रिचेना इत्यस्याः प्रयासान् अपि उल्लिखितवान्। सः अवदत् यत् पारम्परिककृषिसम्बद्धपरिवारात् आगता क्रिचेना पुष्पकृषिं स्वीयानुरागत्वेन परिवर्त्य तां सफलादर्शरूपेण विकसितवती। अद्य सा पुष्पकृषिमाध्यमेन विविधैः विपणैः सम्बद्धा अस्ति तथा स्वप्रदेशस्य स्थानीयसमुदायान् सशक्तं कुर्वन्ती अस्ति।

प्रधानमन्त्री मोदी अवदत् यत् एते द्वे उदाहरणे दर्शयतः यत् पारम्परिकज्ञानम् आधुनिकविचारेण सह अग्रे वर्धने आर्थिकप्रगतेः नवीनाः अवसराः जायन्ते। सः देशवासिनः आह्वानं कृतवान् यत् यदि तेषां समीपेऽपि एतादृश्यः प्रेरणादायकाः कथाः स्युः, ताः अवश्यं ज्ञापयेयुः।

हिन्दुस्थान समाचार / अंशु गुप्ता