Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 दिसंबरमासः (हि.स.)।
अद्य प्रधानमंत्रिणा नरेन्द्रमोदिना भारतीयपरम्परायां सन्तुलनस्य मर्यादायाश्च महत्त्वं प्रतिपाद्य संस्कृतम् एकश्श्लोकः प्रकाशितः। ते अवदन् यत् जीवनकार्ययोः नात्यधिकं अहंभावः करणीयः, न च अतिनिमज्जनभयम्। अपि तु विवेकसन्तुलनाभ्यां सह अग्रे गमनमेव सफलताया मार्गः।
तेन एक्स् नाम्नि माध्यमे लिखितं यत्
“नात्युच्चशिखरो मेरुः नातिनीचं रसातलम्। व्यवसायद्वितीयानां नात्यपारो महोदधिः॥”
अस्य श्लोकस्य अर्थः— अस्याः शिक्षायाः द्वारा कर्मशीलानां जनानां ज्ञाप्यते यत् कस्यापि लक्षस्य प्राप्त्यर्थं निरन्तरप्रयत्नः धैर्यं सन्तुलितचिन्तनं च आवश्यकम्। नात्युन्नता दुर्लङ्घ्या, न च गहना दुर्जया— सततपरिश्रमेन सर्वा अपि परिस्थितयः जेतुं शक्यन्ते।
---------------
हिन्दुस्थान समाचार