Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 29 दिसम्बरमासः(हि.स.)।
उत्तरप्रदेशस्य जौनपुरनगरे स्थिते वीरबहादुरसिंहपूर्वाञ्चलविश्वविद्यालयस्य एकलव्यक्रीडाङ्गणे सोमवारे क्रीडाजगतः कृते ऐतिहासिकं प्रेरणादायकं च क्षणं दृश्यं जातम्, यदा लण्डनओलम्पिकद्विसहस्रद्वादशवर्षस्य काञ्चनपदकविजेतुः देशस्य गौरवभूतः ओलम्पियन योगेश्वरदत्तः आगतः। तस्य आगमनात् विश्वविद्यालयपरिसरस्य क्रीडावातावरणं उत्साहेन ऊर्जया च पूर्णं जातम्।
एकलव्यक्रीडाङ्गणे आयोजिते कार्यक्रमे योगेश्वरदत्तः उक्तवान् यत् सफलतायाः एकमेव मार्गः कठिनपरिश्रमः अनुशासनं च तथा सत्यनिष्ठा इति। सः क्रीडकान् प्रति मातापितृगुरूणां सम्मानं कर्तुम आह्वानं कृत्वा अवदत् यः क्रीडकः संस्कारेण समर्पणेन च सह अग्रे गच्छति स एव जीवनस्योच्चशिखरं प्राप्नोति। तस्य विचारैः उपस्थितक्रीडकानां मनसि आत्मविश्वासः संकल्पः नवीना च ऊर्जा उत्पन्ना।
अस्मिन् अवसरे योगेश्वरदत्तस्य भव्यं स्नेहपूर्णं च स्वागतं विश्वविद्यालयस्य क्रीडासचिवेन प्रोफेसरशेखरसिंहेन डाक्टररणधीरसिंहेन डाक्टरराजेशसिंहेन जिला मंत्री क्रीडाभारती इति बाबामौर्येण जिलाध्यक्ष क्रीडाभारती इति डाक्टररामधारीणा पूर्वकर्मचारीसङ्घस्य महामन्त्रिणा रमे शयादवेन अलकासिंहेन अशोकसोनकरेण योगप्रशिक्षकेन जयसिंहेन भानुप्रतापशर्मणा सत्येन्द्रसिंहेन अजयप्रतापसिंहेन परशुरामेण सन्तराजेन सिकन्दरेण अन्यैश्च गण्यमान्यैः जनैःकृतम्।
कार्यक्रमे प्रशिक्षणशिविरे भागग्रहणं कुर्वन्त्यः महिला क्रिकेटदलानि महिला योगदलानि तथा मल्लयोद्धायो बहवः क्रीडकाः उपस्थिताः आसन्। क्रीडकाः प्रशिक्षकाः च ओलम्पियन श्रीदत्तं प्रति पुष्पगुच्छैः माल्यार्पणैः अङ्गवस्त्रैः स्मृतिचिह्नैश्च सम्मानं कृतवन्तः।
हिन्दुस्थान समाचार