Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २९ दिसम्बरमासः (हि.स.)। काङ्ग्रेसस्य प्रथमाध्यक्षः तथा स्वातन्त्र्यान्दोलनस्य महान् सेनानी व्योमेशचन्द्रबनर्जीमहोदयस्य जयन्त्यवसरे काङ्ग्रेसाध्यक्षः मल्लिकार्जुनखरगेः राज्यसभासदस्यः सैयदनसीरहुसैनश्च तस्मै श्रद्धाञ्जलिमर्पितवन्तौ। उभौ नेतारौ सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र बनर्जीमहोदयस्य योगदानं स्मारयन्तौ तम् आधीनताविरुद्धस्य राष्ट्रियान्दोलनस्य प्रारम्भिकशिल्पकारः इति उक्तवन्तौ।
काङ्ग्रेसाध्यक्षः खरगे अवदत् यत् व्योमेशचन्द्रबनर्जी भारतीयराष्ट्रीयकाङ्ग्रेसस्य संस्थापकसदस्येषु अन्यतमः तथा प्रथमाध्यक्षः आसीत्। सः १८८५ तमे वर्षे बॉम्बे-नगरे काङ्ग्रेसस्य प्रथमाधिवेशनस्य अध्यक्षतां कृतवान्। सः लवणकरस्य विरोधं कृतवान् तथा स्वदेशी-आन्दोलनस्य समर्थनमकरोत्। अपि च सङ्घटनस्य सुदृढीकरणाय प्रान्तीयसमितीनां गठनस्य पक्षपातं कृतवान्। काङ्ग्रेस-आन्दोलनस्य आधारशिलां स्थापयितुं तस्य अग्रणी-योगदानाय वयं सदैव कृतज्ञाः स्मः।
काङ्ग्रेस-सांसदः सैयद् नसीरहुसैनः अपि श्रद्धाञ्जलिं समर्पयन् लिखितवान् यत् बनर्जी विशिष्टः न्यायविद् आसीत् तथा भारतस्य राष्ट्रियान्दोलनस्य प्रारम्भिक-शिल्पकारः आसीत्। सः संवैधानिकराजनीतेः, एकतायाः तथा लोकतान्त्रिक-संवादस्य आधारं स्थापितवान्। काङ्ग्रेसस्य प्रारम्भिककाले तस्य नेतृत्वं स्वातन्त्र्यसङ्ग्रामाय मञ्चं सज्जीकृतवान्। तस्य परम्परा अद्यापि अस्मान् सिद्धान्ताधारितनेतृत्वस्य, संवैधानिकमूल्यानां तथा सामूहिक-राष्ट्रीय-आकाङ्क्षायाः स्मरणं कारयति।
उल्लेखनीयं यत् व्योमेशचन्द्रबनर्जीमहोदयस्य जन्म १८४४ तमे वर्षस्य २९ दिसम्बरमासे कलकत्तानगरे (इदानीं कोलकाता) अभवत्। सः लण्डनस्थितात् मिडिल-टेम्पल् इत्यस्मात् बैरिस्टरपदवीं प्राप्तवान्, ततः भारतं प्रत्यागत्य कलकत्ता-उच्चन्यायालये अधिवक्तुः कार्यमारब्धवान्। सः प्रथमः भारतीयः आसीत् यः स्टैण्डिङ्ग-काउन्सिल-पदे नियुक्तः, तथा च चतुर्वारं तत् पदं गृहीतवान्। १८८३ तमे वर्षे सः सुरेन्द्रनाथ-बनर्जी-सम्बद्धे अवमाननाविषये तर्कं कृतवान्। बनर्जीः भारतीयराष्ट्रीयकाङ्ग्रेसस्य संस्थापकानां मध्ये अन्यतमः आसीत् तथा १८८५ तमे वर्षे बॉम्बे-अधिवेशने एवं १८९२ तमे वर्षे इलाहाबाद-अधिवेशने अध्यक्षतया निर्वाचितः। सः ब्रिटिश-हाउस-ऑफ-कॉमन्स इत्यस्य निर्वाचने स्पर्धां कृतवत्सु भारतीयेषु प्रथमः भारतीयः आसीत्। महिलाशिक्षायाः समर्थकः बनर्जीः भारतीय-स्वातन्त्र्यान्दोलनस्य प्रारम्भिकचरणे राष्ट्रिय-एकतायाः भावनां सुदृढीकृतवान्। तस्य उदारवादी-दृष्टिकोणः संवैधानिकान्दोलनस्य आधारशिलां स्थापितवान्, यः अग्रे गत्वा गोखले-गान्धी-प्रभृतिनेतॄन् प्रेरितवान्। १९०६ तमे वर्षे दृष्टिनाशान्तरं सः इंग्लैण्ड्-देशं गतवान्, तथा च १९०६ तमे वर्षे जुलाइमासस्य २१ दिनाङ्के लण्डन-नगरे तस्य निधनम् अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता