एंजेल चकमा हत्याकांड: मुख्यमंत्री धामी पीड़ितस्य पित्रा सह अकरोद्वार्ताम्
-हत्यारोपित्रे शक्ति दंडं दातुं दापितो विश्वासः देहरादूनम्, 29 दिसंबरमासः (हि.स.)। मुख्यमंत्रिणा पुष्करसिंहधामिना सोमवारे त्रिपुराराज्यस्य छात्रः एञ्जेल् चकम इत्यस्य पितरं तरुणप्रसाद् चकम इति नामानं प्रति दूरभाषया संभाषणं कृतम्। एञ्जेलस्य हत्याक
मुख्यमंत्री पुष्कर सिंह धामी एंजेल चकमा के पिता से फोन पर  बात करते।


-हत्यारोपित्रे शक्ति दंडं दातुं दापितो विश्वासः

देहरादूनम्, 29 दिसंबरमासः (हि.स.)।

मुख्यमंत्रिणा पुष्करसिंहधामिना सोमवारे त्रिपुराराज्यस्य छात्रः एञ्जेल् चकम इत्यस्य पितरं तरुणप्रसाद् चकम इति नामानं प्रति दूरभाषया संभाषणं कृतम्। एञ्जेलस्य हत्याकरणेन सह सः गाढं शोकं व्यक्तवान्। अस्मिन् जघन्ये अपराधे सम्मिलिताः ये दोषिणः सन्ति तेषां विषये कठोरतमा दण्डना भविष्यतीति तान् आश्वासितवन्तः।

मुख्यमंत्री अभाषत—अस्मिन् प्रकरणे अद्यावधि पञ्च दोषिणः गिरफ्ताराः अभवन्, अपरश्च एको दोषी नेपालदेशं प्रति पलायितवानिति आशङ्का वर्तते। तस्य फरारदोषिणः गिरफ्त्यर्थं इनाम् उद्घोष्य प्रयत्ना तीव्रतया प्रवर्तन्ते। सः प्रोक्तवान् यत् अस्याः घटनायाः कारणेन अहं व्यक्तिगतया अत्यन्तं व्यथितः अस्मि, पीडितपरिवारस्य दुःखं च जानामि। उत्तराखण्डराज्यस्य सरकार दोषिभ्यः विरुद्धं कठोरं कर्म करिष्यति। उत्तराखण्डे सदा सौहार्दपूर्णं वातावरणं वर्तते, अत्र देशान्तरात् अपि छात्राः अध्ययनार्थं आगच्छन्ति। एषा घटना न केवलं पीडितपरिवारस्य, अपितु समग्रप्रदेशस्यापि दुःखदायिनी अस्ति।

मुख्यमंत्री पुनरपि उक्तवान् यत् घट्नानन्तरं तेन त्रिपुरस्य मुख्यमंत्री डॉ माणिकसाहा तथा केन्द्रस्य गृहमन्त्री अमितशाह रक्षा मन्त्री राजनाथसिंह इत्येभ्यः सह अपि अनेन विषयेन संभाषणं कृतम्। सः अवदत्—प्रदेशसर्वकारः पूर्णतया पीडितपरिवारस्य साहाय्याय स्थितवती। परिवारस्य सहायता कृते सः त्रिपुरमुख्यमन्त्रिणा सह समन्वयं करिष्यति, उत्तराखण्डसर्वकारतः च यथाशक्ति सर्वमपि साहाय्यं प्रदास्यते।

---

हिन्दुस्थान समाचार