Enter your Email Address to subscribe to our newsletters

– आरटीआई-विवरणे उद्घाटनम् : गुप्त-सेवा-व्ययः षोडशगुणः, परिश्रमिक-व्ययः २४२२ प्रतिशतम् अवर्धत्
देहरादून-नगरम्, २९ दिसम्बरमासः (हि.स.)। उत्तराखण्ड-राज्यस्य आरक्षी-विभागस्य सम्पूर्णव्यये गत-पञ्चवर्षेषु अत्यधिक-वृद्धिः अभिलेखिता अस्ति। वित्तीयवर्षे २०२०–२१ मध्ये यत्र आरक्षी-विभागस्य सम्पूर्णव्ययः ४० कोटिः ३७ लक्षं ७३ सहस्रं ६८३ रूप्यकाणि आसीत्, तत्र वित्तीय-वर्षे २०२४–२५ मध्ये सः व्ययः ४१९ प्रतिशत-वृद्ध्या २०९ कोटिः ६३ लक्षं ९० सहस्रं ३४ रूप्यकाणि यावत् प्राप्यन्ते। एतत् तथ्यं सूचना-अधिकार-अधिनियमान्तर्गतं प्राप्तया सूचनया प्रकाशं गतम्।
काशीपुरनिवासी सूचना-अधिकार-कार्यकर्ता नदीम-उद्दीनः (अधिवक्ता) उत्तराखण्ड-आरक्षी-मुख्यालयात् आरक्षी-स्थलानां विषये, उच्चतमन्यायालयस्य निर्देशानुसारं नियुक्तैः सीसीटीवी-यन्त्रैः सहितं विभिन्नेषु शीर्षकेषु कृतस्य व्ययस्य विवरणं प्रार्थितवान्। अस्य प्रत्युत्तरे आरक्षी-मुख्यालयस्य लोक-सूचना-अधिकारी तथा आरक्षी-अधीक्षकः (कार्यालय-व्ययः) कमलेश-उपाध्यायः पत्राङ्क ५७९ द्वारा बजट-मैनुअल्–८ अन्तर्गतं वित्तीय-वर्षेषु २०२१–२२ तः २०२४–२५ पर्यन्तं व्यय-विवरणानां सत्यापित-प्रतिलिप्यः प्रदत्तवान्।
प्राप्त-सूचनानुसारं वित्तीय-वर्षे २०२०–२१ मध्ये पुलिस-विभागस्य आहत्य-व्ययः ४०.३७ कोटिरूप्यकाणि आसीत्, यः २०२१–२२ मध्ये ५९ प्रतिशत-वृद्ध्या ६४.३५ कोटिरूप्यकाणि अभवन्। वित्तीय-वर्षे २०२२–२३ मध्ये सः व्ययः न्यूनः भूत्वा ४२.१० कोटिरूप्यकाणि एव अभवन्, किन्तु २०२३–२४ मध्ये त्रिगुणात् अपि अधिकं वृद्धिं प्राप्य १४६.७७ कोटिरूप्यकाणि अभवन्। २०२४–२५ मध्ये पुनः वर्धमानः सः व्ययः २०९.६३ कोटि रूप्यकाणि यावत् अभवन्।
२०२४–२५ तमे वर्षे प्रमुख-व्ययः
वित्तीय-वर्षे २०२४–२५ मध्ये वेतन-शीर्षके १९.०१ कोटि रूप्यकाणि, महँगाई-भत्तायां ९.९४ कोटि, अन्य-भत्तासु १.७४ कोटि, परिश्रमिकशीर्षके २७.७३ कोटिः, सङ्गणक-हार्डवेयर्, सॉफ्टवेयर् तथा अनुरक्षणे १०.४९ कोटिः, व्यवसायिक-विशेष-सेवासु ५.९२ कोटिः, कार्यालय-वाहन-क्रये २४.९५ कोटिः तथा यान-सञ्चालन-अनुरक्षण-ईंधन-व्यये ३७.९८ कोटिःरूप्यकाणिव्ययितानि।
अतिरिक्तं यन्त्र-उपकरण-सज्जा-संयंत्र-शीर्षके ४७.२५ कोटिः, अनुरक्षणव्यये ९.९९ कोटिः, सामग्री-आपूर्ति-शीर्षके ३.९९ कोटिः तथा लघु-निर्माण-कार्येषु ५.९९ कोटिःरूप्यकाणिव्ययितानि। गुप्त-सेवा-शीर्षके १.५० कोटिरूप्यकाणिव्ययःदर्शितः।
सीसीटीवी-शीर्षके सप्तदशगुण-वृद्धिः
आरक्षी-अधीक्षकः (बजट) पत्राङ्क ५५६(१) द्वारा अवदत्यत् आरक्षी-स्थलानांसीसीटीवी-यन्त्र-स्थापन-व्ययः मानक-शीर्षक-४० (यन्त्र-उपकरण-सज्जा-संयंत्र) अन्तर्गतंकृतः। अस्मिन् शीर्षके वित्तीय-वर्षे २०२०–२१ मध्ये २.४९ कोटिरूप्यकाणिव्ययितानिआसन्, यानि २०२४–२५ मध्ये ४७.२५ कोटिरूप्यकाणिअभवन्। एवम् अस्मिन् शीर्षके सप्तदशगुणादधिकावृद्धिः अभिलेखिता।
विभिन्नशीर्षकेषु व्यय-वृद्धेः स्थितिः
प्राप्त-सूचनयास्पष्टंभवतियत्वेतनं, लेखन-सामग्री, उपस्कराणि (फर्नीचर) तथा सामान्य-कार्यालय-व्ययेषुकेवलं २५ प्रतिशत-पर्यन्तम् अल्प-वृद्धिःअभवत्, तथा चिकित्सा-प्रतिपूर्ति-शीर्षके ६३ प्रतिशतंह्रासः, सामग्री-आपूर्ति-शीर्षके ५५ प्रतिशतंह्रासः च अभिलेखितः।
तद्विपरीतंपरिश्रमिक-शीर्षके २४२२ प्रतिशतं, भाटक-कर-स्वामित्वे २८८२ प्रतिशतं, विज्ञापन-शीर्षके २६४३ प्रतिशतं, सङ्गणक-हार्डवेयर्-शीर्षके ३१६५ प्रतिशतं, व्यवसायिक-सेवासु १८७४ प्रतिशतं, वाहन-क्रये ७१३० प्रतिशतं, वाहन-सञ्चालन-ईंधन-व्यये ६१२१ प्रतिशतं, गुप्त-सेवा-शीर्षके १५६७ प्रतिशतं, यन्त्र-उपकरण-शीर्षके १७९० प्रतिशतं तथा लघु-निर्माण-शीर्षके २०८० प्रतिशतम् इति अत्यधिक-वृद्धिः दृष्टिगोचरा अभवत्।
हिन्दुस्थान समाचार