बरेली-नगरे उत्तरायणी-मेलायाः आयोजनस्य पूर्वसज्जायै सभाः अनवरतं प्रवर्तन्ते, १३ जनवरीमासात् आरम्भः भविष्यति
–४ जनवरी २०२६ तमे दिवसे भूमिपूजनं भविष्यति बरेली, २९ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बरेली-जनपदे उत्तरायणी-जनकल्याण-समित्या बरेलीद्वारा उत्तरायणीमेला १३, १४ तथा १५ जनवरी २०२६ तमे दिनाङ्के बरेली-क्लब-क्षेत्रे आयोजितः भविष्यति। मेलायाः पूर्वसज्ज
उत्तरायणी मेला 2026 की तैयारियों को लेकर बैठक में उपस्थित उत्तरायणी जन कल्याण समिति के संगठन मंत्री सी.बी. तिवारी सहित क्षेत्रीय सचिव व पदाधिकारी, मेले को भव्य व सफल बनाने को लेकर करते विचार-विमर्श।

–४ जनवरी २०२६ तमे दिवसे भूमिपूजनं भविष्यति

बरेली, २९ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बरेली-जनपदे उत्तरायणी-जनकल्याण-समित्या बरेलीद्वारा उत्तरायणीमेला १३, १४ तथा १५ जनवरी २०२६ तमे दिनाङ्के बरेली-क्लब-क्षेत्रे आयोजितः भविष्यति। मेलायाः पूर्वसज्जाम् अन्तिमरूपं प्रदातुं समितेः सङ्घटनमन्त्री सी.बी.तिवारीवर्यस्य नेतृत्वे क्षेत्रीयसचिवैः सह निरन्तरं तिस्रः महत्त्वपूर्णाः सभाः आयोजिताः।

प्रथमा सभा कैंट्क्षेत्रे सम्पन्ना, यस्यां रामूचन्दः, पद्मरावतः, तन्नूबोरा, मदनबिष्टः, अमितसती च सहिताः अनेके पदाधिकारिणः उपस्थिताः आसन्। द्वितीया सभा पीलीभीत-बाइपास-स्थिते आशियाना-कालोनी-प्रदेशे क्षेत्रीयसचिवस्य भरतोलस्य नेतृत्वे आयोजिता, यस्यां जीतसिंहबोहरा, राधाबल्लभपाण्डेयः तथा कालोनीनिवासिनः सहभागिनः अभवन्। एतस्याः अनन्तरं तृतीया सभा लालफाटकक्षेत्रे सचिवस्य कैलाश-उपाध्यायस्य नेतृत्वे सम्पन्ना, यस्यां दामोदर-फुलेरः, कैप्टन-शेरसिंह-बिष्टः, ब्रजेश-मिश्रः, बसन्त-लेखकः, जीवन-मेहरा, ललितमोहन-पुनेठा तथा भोपालसिंह-बजेठा इत्यादयः उपस्थिताः आसन्।

सभासु मेलायाः सफलतायै व्यापकजनसहभागितायाः आवश्यकता अस्ति। तथैव मेलाम् इतोऽप्यधिकं दिव्यं, भव्यम् आकर्षकञ्च कर्तुं विविध-विषयेषु विचार-विमर्शः अभवत्। जनमानसे मेलायाः विषये महान् उत्साहः दृश्यते।

समितेः पत्रकार-प्रभारी रमेशशर्मा अवदत् यत् ४ जनवरी २०२६ तमे दिने भूमिपूजनकार्यक्रमेण सह मेलायाः विधिवत् आरम्भः भविष्यति। सर्वे पदाधिकारिणः स्व-स्व-दायित्वानां निर्वहणाय अहर्निशं समर्पितभावेन कार्यं कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता