अति-शैत्यकालेऽपि निरन्तरं प्रवृत्तम् आसीत् मुख्यमन्त्रिणः योगिनः जनसेवानुष्ठानं, सार्धैकशतजनानां श्रुताः समस्याः
- जनमानसम् अवदत् मुख्यमन्त्री — मा चिन्तिताः भवन्तु, सर्वासां समस्याणां कारयिष्यामः समाधानं, सर्वेषां भविष्यति पूर्णा सहायता - मुख्यमन्त्रिणा अधिकारिणः निर्देशिताः, संवेदनशीलतया, त्वरिततया च कुर्वन्तु जन-समस्यानां निराकरणम् गोरखपुरम्, 29 दिसम्ब
सीएम  योगी  ने गोरखनाथ मंदिर में जनता दर्शन का आयोजन कर लोगों से मुलाकात की


सीएम  योगी  ने गोरखनाथ मंदिर में जनता दर्शन का आयोजन कर लोगों से मुलाकात की


सीएम  योगी  ने गोरखनाथ मंदिर में जनता दर्शन का आयोजन कर लोगों से मुलाकात की


सीएम  योगी  ने गोरखनाथ मंदिर में जनता दर्शन का आयोजन कर लोगों से मुलाकात की


- जनमानसम् अवदत् मुख्यमन्त्री — मा चिन्तिताः भवन्तु, सर्वासां समस्याणां कारयिष्यामः समाधानं, सर्वेषां भविष्यति पूर्णा सहायता

- मुख्यमन्त्रिणा अधिकारिणः निर्देशिताः, संवेदनशीलतया, त्वरिततया च कुर्वन्तु जन-समस्यानां निराकरणम्

गोरखपुरम्, 29 दिसम्बरमासः(हि.स.)। जनहितं सर्वोच्चं प्राधान्यं दत्त्वा मुख्यमन्त्री योगी आदित्यनाथः प्रचण्ड-शीतलहर्यामपि सोमवासरे जनसेवा-अनुष्ठानं निरन्तरं प्रचल्यामानम् आसीत् । प्रतिकूल-ऋतुस्थित्याः अपि उपेक्षां कृत्वा सः गोरखनाथ-मन्दिरे जनतादर्शन-कार्यक्रमम् आयोजितवान् तथा जनैः सह साक्षात् संवादं कृतवान्। जनानां समस्याः श्रुत्वा आत्मीयतया संवादं कुर्वन् मुख्यमन्त्री अवदत् यत् “मा चिन्तिताः भवन्तु, प्रत्येकस्य समस्यायाः समाधानं कारयिष्यामः, सर्वकारः सर्वेषां पूर्णतया सहायतां करिष्यते।” जनतादर्शने सन्निहितान् अधिकारिणः सः निर्देशितवान् यत् प्रत्येकस्य पीडितस्य समस्यां संवेदनशीलतया अवधानपूर्वकं पश्यन्तु तथा समयबद्धं पारदर्शकं च समाधानं सुनिश्चितं कुर्वन्तु।

सोमवासरे प्रातःकाले गोरखनाथ-मन्दिर-परिसरे महन्त-दिग्विजयनाथ-स्मृति-भवन-सभागारे आयोजिते जनतादर्शने मुख्यमन्त्री योगी आदित्यनाथः प्रायः 150 जनानां समस्याः श्रुतवान् तथा तेषां समाधानार्थम् अधिकारिणः निर्देशितवान्। आसनेषु उपविष्टान् जनान् प्रति सः स्वयमेव गत्वा एकैकस्य समस्या श्रुतवान्। सर्वान् आश्वासयन् अवदत् यत् सर्वासां समस्याणां समाधानं सुनिश्चितं भविष्यति, कस्यापि चिन्ता कर्तव्या नास्ति। प्रार्थना-पत्राणि स्वीकृत्य सः अधिकारिणः आदेशं दत्तवान् यत् प्रत्येकस्य समस्यायाः निराकरणं शीघ्रं, गुणवत्तायुक्तं तथा सन्तोषजनकं भवेत्।

भूमि-अतिक्रमण-विषये कतिपयैः जनैः निवेदिते मुख्यमन्त्रिणा दृढा-विधि-प्रक्रिया निर्देशिताः। सः अवदत् यत् यदि कश्चन दबङ्गजनः अथवा माफियाजनः बलात् कस्यचित् भूमिम् अतिक्रामति, तर्हि तस्य विरुद्धं अतिशय-दृढं दण्डात्मकं कर्म विधेयम्। दरिद्र-जनान् विस्थापयितारः कदापि न क्षन्तव्याः। यत्र भूमेः मापनस्य आवश्यकता अस्ति, तत्र मापनं कृत्वा विवादस्य समाधानं कारयितव्यम्। पारिवारिक-विवादेषु उभय-पक्षयोः सह संवादेन समाधान-मार्गम् अन्वेष्टुं अपि सः निर्देशं दत्तवान्।

जनतादर्शने कतिपयाः जनाः चिकित्सायै आर्थिक-सहायतां याचमानाः अपि आगताः। मुख्यमन्त्री तान् अवदत् यत् चिकित्सायां धनाभावः कदापि बाधकः न भविष्यति। सः अधिकारिणः निर्देशितवान् यत् चिकित्सालयस्य अनुमान-पत्र-प्रक्रियां शीघ्रं पूर्णां कृत्वा शासनाय प्रेषयन्तु। मुख्यमन्त्री-विवेकाधीन-कोषात् चिकित्सायै पर्याप्ता धनराशिः प्रदानं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता