माघ मेलायां कल्पवासिनां निर्धारित मार्गेभ्यः प्रवेशः, वाहनानाम् आवागमने प्रवर्तिष्यते परिवर्तनम्
प्रयागराजः, 29 दिसंबरमासः (हि.स.)। विश्वप्रसिद्धे संगमतटे आगामि त्रितीयजनवरीतिथेः आरभ्य माघमेलनाम्नः महोत्सवस्य प्रारम्भः भविष्यति। मेले श्रद्धालूनां सुरक्षा-सुविधाः च विचार्य तत्र रणनीतिः अपि निर्मिता अस्ति। मेले बहुसंख्यकल्पवासिनां आगमनं दृष्ट्
प्रयागराज माघ मेला का प्रतीकात्मक छाया चित्र


प्रयागराजः, 29 दिसंबरमासः (हि.स.)।

विश्वप्रसिद्धे संगमतटे आगामि त्रितीयजनवरीतिथेः आरभ्य माघमेलनाम्नः महोत्सवस्य प्रारम्भः भविष्यति। मेले श्रद्धालूनां सुरक्षा-सुविधाः च विचार्य तत्र रणनीतिः अपि निर्मिता अस्ति। मेले बहुसंख्यकल्पवासिनां आगमनं दृष्ट्वा पृथक्-पृथक् सप्त मार्गाः विनिर्धारिताः सन्ति। एतत् सूचना सोमवासरे माघमेलनोडलप्रभारी डी सी पी-यातायात् नीरजपाण्डेय-नाम्ना प्रदत्ता।

ते अवदन् यत् कल्पवासिनः स्वशिबिरे सामानम् अवतर्य नियतपार्किङ्स्थलेषु एव वाहनानि स्थापयन्तु तथा नियतमार्गैरेव आगमन-गमनं कुर्वन्तु इति अपील् कृताऽस्ति। तेन अधीनस्थान् अपि नियतमार्गस्य पालनं करयितुं निर्देशः दत्तः।

झूंसी-क्षेत्रे कल्पवासिनां मार्गः—

नीरजपाण्डेयेन उक्तं यत् जौनपुरदिशतः आगच्छन्तः कल्पवासिनः स्वैः लघुवाहनैः सह सहसो-अन्दावा-मार्गे रहिमापुर-त्रिराहात् दक्षिणदिकं मुहूत्वा ए जे-मार्गम् आरुह्य ओल्ड्-जी टी-रोड् ततः लोअर्-संगम-मार्गेण शिबिरे प्रवेशं करिष्यन्ति।

वाराणसी-मार्गः—

कल्पवासिनः स्वैः लघुवाहनैः सह अंदावा-त्रिराहा, कटका-त्रिराहा इत्यस्मात् दक्षिणतो मुहूत्वा ओल्ड् जी टी-रोड् मार्गेण लोअर्-संगम-मार्गद्वारा प्रवेशं करिष्यन्ति।

मिर्जापुर तथा चित्रकूट–रीवां-मार्गः—

कल्पवासिनः स्वैः लघुवाहनैः सह लेप्रोसी-चौराहा, बांगड़-चौराहा, जी टी-ज़वाहर-चौराहा-उड्डयनपुलं, शास्त्री-सेतु, कटका-त्रिराहात् वामतः मुहूत्वा ओल्ड् जी टी-रोड् मार्गं गत्वा लोअर्-संगम-मार्गेण प्रवेशं करिष्यन्ति।

प्रयागराज-नगर एवं कानपुर-मार्गः—

कानपुर-मार्गात् प्रयागराज-नगरात् च आगच्छन्तः कल्पवासिनः लघुवाहनैः सह जी टी-ज़वाहर-चतुष्पथः ओल्ड् जी टी-रोड् थाना-दरागंजस्य पुरतः गत्वा पॉन्टून्-सेतु-संख्या–५ इत्यस्मात् झूंसी-क्षेत्रे लोअर्-संगम-मार्गेण आगमिष्यन्ति।

लखनऊ तथा अयोध्या–प्रतापगढ़-मार्गः—

एतस्मात् मार्गात् आगच्छन्तः कल्पवासिनः लघुवाहनैः सह बसना-नाला-सेतुं लङ्घ्य पुरातन-फाफामऊ-आपणं गत्वा थरवै–सहसो–अन्दावा-मार्गे रहिमापुर-त्रिराहात् दक्षिणतः मुहूत्वा ए जे-मार्गेण ओल्ड्-रोडं गत्वा लोअर्-संगम-मार्गे आगमिष्यन्ति।

एवमेव अस्मात् एव मार्गात् आगच्छन्तः लघुवाहनयुक्ताः कल्पवासिनः चन्द्रशेखर-आज़ाद्-सेतुं लङ्घ्य वाम-लूप् (मेंहदौरी-आरक्षिस्थानं) इत्यतः रिवर्-फ्रण्ट्-मार्गे वामतः मुहूत्वा पॉन्टून्-सेतु-संख्या–५ इत्यस्मात् झूंसी-क्षेत्रस्य लोअर्-संगम-मार्गे प्रवेशं करिष्यन्ति।

तथैव लखनऊ–अयोध्या–प्रतापगढ़-मार्गात् आगच्छन्तः कल्पवासिनः चन्द्रशेखर-आज़ाद्-सेतुं लङ्घ्य एम् एन् एन् आई टी-त्रिराहा, मजार-त्रिराहा इत्यस्मात् वामतः मुहूत्वा आई ई आर टी-उड्डयनसेतुं गत्वा रिवर्-फ्रण्ट्-मार्गे वामतः मुहूत्वा पॉन्टून्-सेतु-संख्या–५ इत्यतः झूंसी-क्षेत्रस्य लोअर्-संगम-मार्गं प्राप्स्यन्ति।

अरैल्-क्षेत्रस्य कल्पवासिनां मार्गः—

मेला-सेक्टर्-सप्तमे वसन्तः कल्पवासी-श्रद्धालवः लेप्रोसी-चौराहं गत्वा नवप्रयागम्-अपरोच्-मार्गेण अरैल्-बन्ध-मार्गात् सोमेश्वर-महादेव्-रैम्प तथा महाकाल्-रैम्प इत्यस्माभ्यां अधः अवतार्य स्वशिबिराणि प्राप्स्यन्ति।

परेड्-क्षेत्रे कल्पवासिनां मार्गः—

माघ-मेला-सेक्टर्-एकम्-द्वौ इत्येतयोः वसन्तः कल्पवासी जी टी-ज़वाहर-चौराहात् हर्षवर्धन-चतुष्पथं गत्वा काली-मार्गेण स्वशिबिरेषु प्रवेशं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार