हरिद्वार लिटरेचर फेस्टिवल इत्यत्र चित्रकाराः सम्मानिताः
हरिद्वार लिटरेचरसमारोहे चित्रकाराः हास्यकवयश्च समापन सत्रम् आनन्दितवन्तः हरिद्वारम्, 29 दिसंबरमासः (हि.स.)। अन्तःप्रवाहसंस्था हरिद्वारस्य तथा जियोगीतासंस्थानं कुरुक्षेत्रस्य पक्षेण श्रीकृष्णकृपाआश्रमभीमगोड़ा इत्यत्र आयोजितस्य त्रिदिवसीयस्य हरिद्व
चित्रकारों को सम्मानित करने के दौरान


हरिद्वार लिटरेचरसमारोहे चित्रकाराः हास्यकवयश्च समापन सत्रम् आनन्दितवन्तः

हरिद्वारम्, 29 दिसंबरमासः (हि.स.)। अन्तःप्रवाहसंस्था हरिद्वारस्य तथा जियोगीतासंस्थानं कुरुक्षेत्रस्य पक्षेण श्रीकृष्णकृपाआश्रमभीमगोड़ा इत्यत्र आयोजितस्य त्रिदिवसीयस्य हरिद्वारसाहित्योत्सवस्य समापनसमारोहः सम्पन्नः। समापनसत्रे चित्रकारेभ्यः सम्माने पत्राणि दत्वा सम्मानः कृतः। अस्मिन् अवसरे आयोजिते कविसमारोहे पद्मश्रीपुरस्कारप्राप्तः कविः शीनकाफनिजाम जोधपुरनिवासी दिलदारदेहलवी दिल्लीस्थितः डॉक्टर ए एस कुशवाहा ग्वालियरनिवासी अम्बरखरबन्दा देहरादूननिवासी च स्वकाव्यानि शेरांश्च प्रस्तुतवन्तः। स्थानीयकवयः अपि स्वप्रतिभां प्रदर्शितवन्तः।

सम्मानितेषु चित्रकारेषु राष्ट्रपतिपुरस्कारप्राप्तः दिल्लीजनविद्यालयरानीपुरस्थितः अवकाशप्राप्तः कलाशिक्षकः अशोकगुप्तः राष्ट्रपतिपुरस्कारप्राप्ता आचार्यकुलंस्थिताभावनासिंहा सताक्षीवत्सा डॉ पूजापंवारा संजयजायसवालः सुभाषचन्द्रः ज्योतिशर्मा कोमलशर्मा अंशसंखवारा अमृतासाहनी सुदीक्षासिंहा नीलमवर्मा प्रियांशुपालः वृन्दाशर्मा कोमलरानी अर्जुनसिंहपुण्डीरः देहरादूननिवासिनश्च समाविष्टाः आसन्।

एते सर्वे चित्रकाराः चेतनापथनामिकस्य मासिकपत्रस्य सम्पादकसाहित्यकारेण अरुणकुमारपाठकेन संयोजितायां तृतीयायां हरिद्वारसाहित्योत्सवे स्वउत्कृष्टाः आकर्षकाः कलाकृतयः प्रदर्शितवन्तः। समारोहे अन्तःप्रवाहसंस्थायाः निदेशकः सचिवः नानासंस्थापनानां पदाधिकारीणः सदस्याश्च साहित्यकाराः मान्यानगरिकाश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार