असमं प्राप्नोत् केंद्रीय गृहमंत्री अमित शाहः, विमानपत्तनके मुख्यमंत्री अकरोत् स्वागतम्
गुवाहाटी, 29 दिसंबरमासः (हि.स.) । अद्य केन्द्रीयगृहसहकारितामन्त्री अमितशाहः गुवाहाटीनगरं प्राप्तवन्तः। लोकप्रियगोपीनाथबरदलै-अन्ताराष्ट्रिय-विमानपत्तने अस्मिन् तान् असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा सस्नेहम् आतिथ्येन स्वागतवन्तः। विमानपत
असम पहुंचे केंद्रीय गृह मंत्री अमित शाह का हवाई अड्डे पर स्वागत करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


गुवाहाटी, 29 दिसंबरमासः (हि.स.) ।

अद्य केन्द्रीयगृहसहकारितामन्त्री अमितशाहः गुवाहाटीनगरं प्राप्तवन्तः। लोकप्रियगोपीनाथबरदलै-अन्ताराष्ट्रिय-विमानपत्तने अस्मिन् तान् असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्तबिस्वसरमा सस्नेहम् आतिथ्येन स्वागतवन्तः। विमानपत्तनात् गृहमन्त्री हेलिकोप्टरमार्गेण श्रीमन्तशङ्करदेवस्य जन्मस्थलं बटद्रव-स्थानं प्रति प्रतस्थे, यत्र ते भव्यस्य सांस्कृतिकप्रकल्पस्य उद्घाटनं करिष्यन्ति।

मुख्यमन्त्री डॉ॰ सरमा अमितशाहम् असमस्य पुण्यभूमेः आत्मीयं शुभचिन्तकं इति निर्दिश्य अवदत् यत् एषा तस्य यात्रा राज्यस्य कृते अतीव महत्त्वपूर्णा अस्ति। अस्मिन् अवसरः केन्द्रीयगृहमन्त्री असमस्य विरासत्सम्बद्धाः विकाससम्बद्धाश्च बहून् प्रमुखान् परियोजनान् प्रदेशवासिभ्यः समर्पयिष्यन्ति। मुख्यमन्त्रिणा विश्वासः प्रकाशितः यत् अमितशाहस्य एषा यात्रा असमराज्यस्य विकासस्य सांस्कृतिकनवजागरणस्य च नूतनपर्यायस्य आरम्भं करिष्यति।

हिन्दुस्थान समाचार