Enter your Email Address to subscribe to our newsletters

वाराणसी, २९ दिसम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीजनपदे सोमवासरे जिलाधिकारी सत्येन्द्रकुमारः जनतादर्शनकार्यक्रमस्य अवसरे सामान्यजनस्य समस्याः श्रुतवान्। जनपदस्य विविधप्रदेशेभ्यः आगतानां निवेदकानां निवेदनानि गम्भीरतया संज्ञानं गृहीत्वा जिलाधिकारी सम्बन्धिताधिकारिणः शीघ्रं प्रभावशालीं च निस्तारणं कर्तुं निर्देशान् दत्तवान्।
जिलाधिकारी अवदत् यत् जनानां समस्यानां समयबद्धं पारदर्शकं गुणवत्तापूर्णञ्च निस्तारणं प्रशासनस्य सर्वोच्चप्राथमिकता अस्ति। कथञ्चिदपि प्रमादः न सहिष्यते। सः सर्वान् अधिकारिणः निर्दिष्टवान् यत् ते प्रत्येकं कार्यदिवसे प्रातः १० वादनतः १२ वादनपर्यन्तं स्वकार्यालयेषु अनिवार्यतया जनतायाः समस्यानां शृणुयुः तथा प्राप्तानां समस्यानां यथासम्भवं तत्क्षणमेव निवारणं कुर्युः।
जिलाधिकारी एतदपि अवदत् यत् जनसमस्यानां श्रवणेन सह आईजीआरएस तथा मुख्यमन्त्री-सहायतामार्गेण प्राप्तानां समस्यानां निवारणमपि सर्वकारस्य प्राथमिकतासु अन्तर्भूतमस्ति। सर्वे अधिकारिणः एतासु समस्यासु पूर्णां गम्भीरतां दर्शयित्वा निर्धारितसमयसीमायां समाधानं सुनिश्चितं कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता