Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 3 दिसंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथस्य सर्वकारस्य सौर–ऊर्जा–नीत्या उत्तरप्रदेशः अद्य ऊर्जाक्रान्तेः उन्नतिं प्राप्नोति। प्रदेशस्य आहत्य सौर–ऊर्जाक्षमता इदानीं 1003.64 मेगावाट् पर्यन्तं प्राप्ता, यस्य फलस्वरूपं वार्षिक–विद्युत्–देश्यांशेषु औसततया 40–60 प्रतिशतपर्यन्तं बचतिः भविष्यति इति अनुमानः अस्ति। एषः आयः महत्सु उद्योगेषु आरभ्य ग्रामीण–उपभोक्तृभ्यः यावत् सर्वत्र प्राप्यते।
मुख्यमंत्रीयोगीआदित्यनाथस्य स्पष्टं संदेशं यत् विकसित–यूपी–2047–विजनस्य अन्तर्गतं आगामिनि 22 वर्षेषु प्रदेशस्य सर्वे प्रमुख–नगराः सोलर–सिटी–रूपेण विकासिताः भविष्यन्ति। सौर–ऊर्जाक्षेत्रस्य विशेषज्ञाः वदन्ति यत् एतादृशः आयः दीर्घ–अवधौ प्रदेशस्य अर्थ–व्यवस्थां दृढां करिष्यति। एवं च अस्याः फलस्वरूपं विद्युत्–उपभोगस्य भारोऽपि बहुशः न्यूनः भविष्यति।
राज्य–सर्वकारस्य प्रवक्त्रा अनुसारं प्रदेशे सौर–ऊर्जा–विस्तारः विस्तीर्णे सति प्रायः 50 सहस्र युवकाः तकनीशियन, इंस्टॉलर, सर्विस–स्टाफ्–रूपेण प्रत्यक्षं रोजगारं प्राप्तवन्तः। रोजगार–अवसराः ग्रामेभ्यः कस्बेभ्यश्च यावत् प्राप्यन्ते। अस्य सकारात्मक–परिणामः एतत् यत् पलायनं न्यूनम् अभवत् स्थानीय–अर्थ–व्यवस्थायाः च सुदृढता अभवत्। तेन सह ग्रामीण–अर्धनगरीयप्रदेशेषु लोड्–शेडिङ्–इत्यस्य न्यूनता अपि दृश्यते। पूर्वं यत्र विद्युत्–विच्छेदात् लघु–व्यवसायाः यथा मिल्, वेल्डिङ्, प्रोसेसिङ्–यूनिट् इत्यादयः प्रभाविताः आसन्, अधुना तेषां आयः 10–15 प्रतिशतपर्यन्तं वर्धितः इति ज्ञायते। सौर–ऊर्जा ग्राम–प्रगतौ प्रमुख–धुरी–रूपेण दृश्यते।
ऊर्जा–आत्मनिर्भरत्वस्य दिशि प्रदेशः
उत्तरप्रदेशः इदानीं ऊर्जा–आत्मनिर्भरत्वस्य मार्गे अग्रे सरति। अस्मिन् सौर–ऊर्जायाः भूमिका अधिकं सुदृढीकरणाय प्रयत्नाः प्रवर्तन्ते। यथा–यथा सौर–ऊर्जायाः दायरो विस्तरिष्यते तथा–तथा पारम्परिक–विद्युत्–आपूर्तौ निर्भरता न्यूनता भविष्यति, तस्य लाभः उद्योगेभ्यः लघु–व्यवसायेभ्यश्च प्राप्यते। योगी–आदित्यनाथ–सर्वकारस्य विश्वासः अस्ति यत् आगामि–वर्षेषु सौर–ऊर्जा प्रदेशस्य आर्थिक–मेरुदण्डः भविष्यति तथा उत्तरप्रदेशं स्वच्छ–ऊर्जा–क्षेत्रे अग्रगण्यं करिष्यति। सूर्यप्रकाश–आधारितं एतत् परिवर्तनम् अधुना कल्पना न, किन्तु भूमौ प्रत्यक्षं दृश्यमानं वस्तुतः वर्तते। योगी आदित्यनाथ–सर्वकारेण ऊर्जा–नीतिः लोक–कल्याण–आर्थिक–उन्नतिभ्यां सह योजिता अस्ति।
सौर–ऊर्जासम्बद्धाः आङ्किकाःप्रदेशस्य 2.90 लक्ष–गृहेषु सोलर–रूफटॉप्–संयन्त्राणि स्थापितानि। आहत्य 2,600 कोटि रूप्यकाणां अनुदानम्। सौर–क्षेत्रे अद्यतनं 50,000 नूतन–रोजगार–सृजनम्।------------
हिन्दुस्थान समाचार / अंशु गुप्ता