Enter your Email Address to subscribe to our newsletters

भोपालम्, ३ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः भोपालगैस-घटनायाः 41 वर्षपर्यन्तं संवत्सरसमाप्तौ दिवंगतानां प्रति श्रद्धाञ्जलिं समर्पितवन्तः। तेन गैस-दुर्घटनया प्रभावितानां नागरिकानां प्रति गहनं संवेदनाभावं व्यक्तम्, तेषां च उत्तमस्वास्थ्याय प्रार्थनाऽपि कृता।
मुख्यमन्त्रिणा सामाजिकसञ्चारमाध्यमे “एक्स्” इति स्वसन्देशे उक्तम् यत् “भोपालगैस-घटनायाः वर्षिकस्मरणदिवसे सर्वेभ्यः दिवंगतपुण्यात्मभ्यः श्रद्धाञ्जलिं समर्पयामि। मम संवेदनाः सर्वेषां प्रभावितपरिवारजनानां सह सन्ति। मानवतानां हृदयम् आकम्पयन्ती या एषा विभीषिका, सा स्वप्नेऽपि न पुनरापततु—ईश्वरस्य प्रति मम एषैव प्रार्थना।” अद्य (३ दिसम्बरः) भोपालगैस-घटनायाः 41तमः वार्षिकोत्सवः अस्ति। एषा त्रासदी १९८४ तमे वर्षे दिसम्बरमासस्य द्वितीय-तृतीय-रात्रौ अभवत्। तस्यां रात्रौ यूनियन् कार्बाइड् इति संस्थायाः एकस्मात् सञ्चयपात्रात् मिथाइल्-आइसोसाइनिट् इति विषवायुः स्रावः अभवत्। सर्वत्र प्रद्रवा प्रादुरभवत्। यन्त्रशालातः प्रायः चत्वारिंशत् टनं गैसः निर्गतवती। यन्त्रशालायाः परिसरे वसन्तः जनाः प्रथमं निधनं प्राप्तवन्तः; यावत्प्रदेशं यावत् विषाक्त-वायोः वेगः गतवान्, तत्र सर्वत्र मृत्युताण्डवं जातम्। अधिका जनाः ते, ये निद्रायामेव स्वस्य अन्तिमश्वासं त्यक्तवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता