Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 दिसंबरमासः (हि.स)।
केन्द्रीयमन्त्री निर्मला सीतारमण इति बुधवासरे लोकसभायां “केन्द्रीयउत्पादशुल्कसंशोधनविधेयकं २०२५” इति विचारार्थं पारितुं च उपस्थापितवती। सीतारमणैव सोमवासरे अपि सदनस्य निम्नकक्षे एतत् विधेयकं प्रस्तुतवती आसीत्। लोकसभायां “केन्द्रीयउत्पादशुल्कसंशोधनविधेयकस्य २०२५” विषये चर्चा प्रचलति। एतत् विधेयकं सेंट्रल एक्साइज एक्ट् १९४४ इति नियमे परिवर्तनाय समर्पितम्। अस्य नियमानुसारं भारतनिर्मितेषु वस्तुषु केन्द्रीयउत्पादशुल्कस्य आरोपणं वसूलनं च विधीयते।
अस्य विधेयकस्य उद्देश्यं तम्बूकूतम्बूकूउत्पत्तीनां च उपरि केन्द्रीयउत्पादशुल्कस्य दरपरिवर्तनं कर्तुं यत् तेन एतेषां उत्पादानां करभारः वर्तमानस्तरे एव तिष्ठति। एतत् विधेयकं अभक्वतम्बूकौ, पक्ततम्बूकौ, तम्बूकूउत्पत्तिषु, तम्बूकूपर्यायेषु च केन्द्रीयउत्पादशुल्कं वर्धयति।
हिन्दुस्थान समाचार