भारतीयसंस्कृतिः विविधतायाः मानं कृत्वा ऐक्यं पोषयति- अमीशत्रिपाठी
- काशी तमिल संगमम् : बीएचयू मध्ये प्रथमशैक्षिकसत्रस्य आयोजनम्, महाकविभरतियारस्य जीवनं तस्य च योगदानम् विषये चर्चा। वाराणसी, 03 दिसम्बरमासः (हि.स.)। काशी–तमिल–संगमस्य चतुर्थसंस्करणस्य द्वितीयदिने बुधवासरे काशी–हिन्दू–विश्वविद्यालयस्य पण्डित–ओंकारना
काशी तमिल संगमम: बीएचयू में पहला एकेडमिक सेशन


काशी तमिल संगमम: बीएचयू में पहला एकेडमिक सेशन


- काशी तमिल संगमम् : बीएचयू मध्ये प्रथमशैक्षिकसत्रस्य आयोजनम्, महाकविभरतियारस्य जीवनं तस्य च योगदानम् विषये चर्चा।

वाराणसी, 03 दिसम्बरमासः (हि.स.)। काशी–तमिल–संगमस्य चतुर्थसंस्करणस्य द्वितीयदिने बुधवासरे काशी–हिन्दू–विश्वविद्यालयस्य पण्डित–ओंकारनाथ–ठाकुर–सभागृहे प्रथमं शैक्षिकसत्रम् आयोजितम्। “काशी इन तमिल इमैजिनेशन : महाकवि सुब्रमण्यम् भारती तथा तस्य धरोहरा” इति विषयकसत्रे तमिलनाडु–राज्यात् आगतानां २१६ विद्यार्थिनां दलः पूर्णेन उत्साहेन सहभागिताम् अकरोत्।

सत्रे मुख्यातिथिरूपेण लेखकः अमीश–त्रिपाठी इत्यनेन उक्तम् यत् अस्माकं भारतीय–संस्कृतिः विविधतानां सम्मानं कृत्वा एकतां पोषयति। तेन भारतीय–धार्मिक–परम्पराणां, ऐतिहासिक–प्रसंगानां, सभ्यतागत–एकतानां च उल्लेखं कृत्वा उक्तम् यत् अस्माभिः एतां साझाविरासतां आत्मसात् कर्तव्यम्। काशी–तमिल–संगमम् इति याः पहलाः ताः अस्मिन् दिशि अत्यन्तं महत्वपूर्णाः सन्ति इति च अवदत्। स्वस्य संबोधनस्य आरम्भे “अहं माता–तमिलम् प्रणमामि” इति उक्त्वा लेखकः काशी–तमिलनाडु–संस्कृत्योः मध्ये बहूनि साम्यबिन्दूनि प्राकटयत्। तेन तमिल–शब्दस्य “वणक्कम्” तथा संस्कृत–शब्दस्य “वन्दे”—उभयोः अपि अर्थः “नमन् / प्रणिपातः” इति—समानतानां निर्देशं कृत्वा प्रदर्शितम् यत् भारतीय–संस्कृतिः विविधतानाम् अपि सम्मानमावहत्।

वक्ता प्रो० आर्०–मेगनाथन (एनसीईआरटी) इत्यसौ महाकविनः सुब्रमण्यम्–भारतीनाम् जीवनम्, दर्शनम्, साहित्य–योगदानं च प्राकटयत्। तेन भारतेः “शक्ति–भक्ति–ज्ञान” इति त्रिपादाधारित–चिन्तनं, तस्य राष्ट्रवादी–चेतना, वैश्विक–दृष्टिः, श्री–अरविन्देन सह वैचारिक–संवादः इत्यादीनि विवृतानि। तेन “अचमिल्लै अचमिल्लै” इत्यादीनि काव्यानि उद्धृत्य प्रदर्शितम् यत् कथं भारती राष्ट्र–एकतां मानवता–सार्वभौमिकतां च स्वीय–रचनानां केन्द्रभूता अकरोत्। अस्मिन् एव सत्रे एनसीईआरटी–निर्मिता महाकवि–भारती–पर–आधारित–चित्रपटी तथा तमिल–भाषाशिक्षणाय विकसितं ट्यूटोरियल् अपि प्रदर्शितम्। अन्ये वक्तारः अवदन् यत् भारतस्य विविधासु परम्परासु निहिताः समानताः एव अस्मान् एकसूत्रे बध्नन्ति, एतत् एव भारतीय–पहचानस्य मूलाधारः।

सत्रस्य अध्यक्षतां कुर्वन् बीएचयू–कुलपतिः प्रो० अजितकुमारचतुर्वेदी अवदत् यत् काशीतमिलसंगमम् उत्तर–दक्षिण–भारतानां मध्ये संवादं परस्परसमजानं च सुदृढं करोति। तेन उक्तम् यत् भारतीयराज्येषु विद्यमानाः समानताः विविधतां न न्यूनीकरोति, अपितु भारतीयतां अधिकं समृद्धां कुर्वन्ति।कुलपतिना “शब्द” इति एआई–आधारित–अनुवाद–उपकरणस्य उल्लेखः कृतः, येन तेन उक्तं यत् तन्त्रज्ञानम् संवादं सुलभतरं करोतु। केटीएस–उद्देश्यः अपि “एकतायाः विविध– आयामानां परिज्ञानं तथा तेषां उत्सवः” इति अवदत्। अतिथीनां स्वागतं प्रो० पी०–वी०–राजीव (आईएमएस–बीएचयू) इत्यनेन कृतम्।

अस्मिन् एव कार्यक्रमे डॉ० जगदीशन–टी इत्यनेन महाकविनः भारतीनाम् काशी–सम्बद्धता, तस्य कृतयः, आधुनिक–तमिल–साहित्ये तस्य योगदानं, तमिल–काशी–सम्बन्धाश्च विवृता ।अस्मिन्नवसरे राष्ट्रियपुस्तक–न्यासेन प्रकाशिताः तमिलबालपुस्तकानाम् अनुवादाः बीएचयू–कुलपतिना विमोचिताः। कार्यक्रमस्य संचालनं डॉ० लावण्या (आईआईटी–बीएचयू) इत्यनेन कृतम्, धन्यवाद–ज्ञापनं डॉ० सरवनकुमार–ई (आईआईटी–बीएचयू) इत्यसौ प्रस्तुतवान्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता