Enter your Email Address to subscribe to our newsletters


—हनुमानघट्टे तमिल मंदिराणाम् इतिहासो ज्ञातः, महाकवि सुब्रह्मण्य भारत्याः उपगृहं पुस्तकालयो दृष्टः
वाराणसी, 3 दिसंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणस्यां प्रवर्तमानस्य “काशीतमिल्संगमस्य” द्वितीये दिने बुधवासरे तमिलनाडुराज्यात् आगताः छात्राः हनुमद्घट्टे पवित्रायां गङ्गानद्यां स्नानं कृत्वा सुखसमृद्ध्योराशिर्वादं याचितवन्तः। गङ्गास्नानानन्तरं सर्वे तमिलातिथयः घाटे प्रतिष्ठितेषु प्राचीनमन्दिरेषु दर्शनपूजनं कृतवन्तः। तेषां सम्मुखे तमिलमन्दिराणां इतिहासः दिव्यता भव्यता च विस्तरेण उपवर्णिता।
तमिलनाडोः आगतं छात्रदलं अद्य हनुमानघाटं प्राप्तम्। ते गङ्गास्नानं कृत्वा पुण्यलाभं कृतवन्तः। आचार्यैः छात्रेभ्यः गङ्गायाः नानाघाटानां इतिहासः विस्तरेण उपदिष्टः। अनन्तरं तमिलातिथयः हनुमानघाटस्थितं महाकवेर् सुब्रह्मण्यभारतेः गृहं गतवन्तः, तत्र तस्य परिवारसदस्यैः सह मिलितवन्तः। छात्राणां दले बहुज्ञानलाभे तीव्रा जिज्ञासा दृष्टा। ते महाकवेः गृहसमीपे स्थितं पुस्तकालयम् अपि ददृशुः, तत्र बह्वीः जानकारीः प्राप्तवन्तः। ततः परं छात्रदलम् काञ्चीमठं गत्वा तस्य इतिहासस्य विषये विवरणं प्राप्तवन्तः। काश्यां दक्षिणभारतीयमन्दिरं दृष्ट्वा युवानां दलम् उत्साहपूर्णम् अभवत्।
श्रीकाशीविश्वनाथमन्दिरन्याससंस्थया सम्बद्धः पण्डितो वेंकटरमणघनपाठी अवदत् यत् “काशी तमिलनाडु च अत्यन्तं गाढेन बन्धनेन अन्वितौ स्तः, अयं संगमः केवलं पख्वारमात्रस्य न, अपितु शताब्दीसहस्रपरम्परायाः चिन्हम्। काश्यां हनुमानघाटे केदारघाटे हरिश्चन्द्रघाटे च मिनीतमिलनाडु वसति। अत्र न केवलं एकद्वे कुटुम्बे, अपि तु दक्षिणभारतराज्येभ्यः सहस्रशः कुलानि निवसन्ति, ये अस्य द्वयोः राज्ययोः मधुरसम्बन्धं साक्षात्कारयन्ति। केवलं हनुमानघाटे 150 अधिकानि गृहाणि तमिलकुलानां सन्ति, यासां गलिषु प्रतिदिनं काशीतमिल्संगमम् एव दृश्यते।”
---------------
हिन्दुस्थान समाचार