Enter your Email Address to subscribe to our newsletters

वाराणसी, ३ दिसम्बरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगर्यां काश्यां प्रवर्तमाने काशी–तमिल–संगमम् ४.० इत्यस्य द्वितीयदिने भारतस्य भाषाविविधता तथा सांस्कृतिकसमन्वयस्य अद्भुतं दर्शनम् अभवत्। बुधवासरे उत्तरवाहिन्याः गङ्गायाः तटे नमोघट इत्यत्र आयोजिते विशेष-अकादमिक-सत्रे कार्यक्रमस्य विषयवस्तु “तमिलं शिक्षामः – तमिल् करकलाम्” इति अन्तर्गतं देशीय-विद्यालयीय-छात्रैः तमिलभाषायाः दक्षिणभारतीय-लोकसंस्कृतेश्च साक्षात्कारः कृतः, येन तैः नवीनानुभवः प्राप्तः।
बालकान् तमिलभाषा-परिचये, लोककथाभिः तथा दक्षिणभारतीय-सांस्कृतिक-विभवैः अवगतुं तमिल-लोककथानां उपयोगः कृतः।
पूर्वांहे दशवादने लंका-प्रदेशे मारुतिनगर-कोलोनी स्थिते श्रीराम-पब्लिक-स्कूले कार्यक्रमस्य आरम्भः अभवत्। तत्र विद्यालयस्य प्रायः त्रिंशत् छात्राः नानाविधासु प्रवृत्तिषु भागं गृहीतवन्तः। प्रथमतः बालकेभ्यः तमिल-लोककथा कथिता, यस्याम् तमिल-सभ्यता, तस्याः गाम्भीर्यम्, नैतिकसन्देशाश्च रोचक-रूपेण वर्णिताः। अनन्तरं नैतिक-विचार-सम्बर्धनम्, मूल्यानां बोधः, निर्णय-क्षमतायाः विकासः च क्रियात्मक-प्रवृत्तिभिः उद्दिश्य प्रतिपादितः।
कार्यक्रमस्य मुख्याकर्षणं “जादुई-पात्रम्” इति, यत् मुग्धा-शाह-नाम्ना अत्यन्त-मनोरञ्जक-रीत्या प्रस्तुतम्। अस्याः प्रस्तुतेः माध्यमेन बालकाः कथायाḥ जादुई-तत्त्वैः सह नूतनं शिक्षण-रूपं प्राप्नोत्।
एतेषां सर्वेषां गतिविधीनां निर्देशनं विद्यालयस्य शिक्षिकाभिः कृष्णा-आचार्य, पुनीता-सिंह, ज्योति-पाण्डेय तथा शिक्षक-शिवम्-सेठ इत्यादिभिः कृतम्। ततः परं सन्त् अतुलानन्द-आवासीय-अकादमी (शिवपुर) इत्यस्य एकादश-छात्राणाम् सहभागितया द्वितीयं सत्रम् आरब्धम्। अत्र एकादशवादने चित्रकारी-स्पर्धा आयोजिताऽभवत्, यस्य विषयः आसीत् — “वाराणस्याः मनोरमाः घाटाः”।
बालकैः निर्मितेषु चित्रेषु काश्याः प्राचीन-घाटाः, गङ्गायाः प्रवाहः, आध्यात्मिक-परिवेशः, सांस्कृतिक-सौन्दर्यम् च चित्रितम्। अस्य सत्रस्य सञ्चालनं शिक्षिका स्वाति-सिंह इत्यनेन कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता