मध्यप्रदेशः -मुख्यमन्त्री डॉ. यादवः अद्य विभिन्न-विभागानां समीक्षां करिष्यति
भोपालम्, ०१ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे विभिन्नानां विभागानां समीक्षां करिष्यति। एतेषु विभागेषु—स्वास्थ्यविभागः, सहकारिताविभागः, महिलाशिशुविकासविभागः, पश्चाद्वर्गाल्पसंख्यककल्याणविभागः, कृषि-उद्यानिकि
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, ०१ दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य बुधवासरे विभिन्नानां विभागानां समीक्षां करिष्यति। एतेषु विभागेषु—स्वास्थ्यविभागः, सहकारिताविभागः, महिलाशिशुविकासविभागः, पश्चाद्वर्गाल्पसंख्यककल्याणविभागः, कृषि-उद्यानिकिविभागः च अन्तर्भवन्ति। समीक्षासभासु सम्बन्धिताः विभागीयमन्त्रिणः अधिकृताश्च उपस्थिताः भविष्यन्ति।

जनसम्पर्काधिकारी के.के. जोशी इत्यनेन उच्यते यत् मुख्यमन्त्री डॉ. यादवः बुधवासरे वल्लभभवने मध्यान्हे ११.००–१२.०० वादनपर्यन्तं लोकस्वास्थ्यपरिवारकल्याणविभागस्य समीक्षा करिष्यन्ति, यस्मिन् उपमुख्यमन्त्री विभागीयमन्त्री च राजेन्द्रशुक्लः उपस्थितः भविष्यति।

द्वादशवादनात् एकवादनपर्यन्तं सहकारिताविभागस्य समीक्षा करिष्यन्ति, यस्मिन् विभागीयमन्त्री विश्वाससारङ्गः उपस्थितो भविष्यति।

एकवादनात् १.४५ पर्यन्तं महिलाबालविकासविभागस्य समीक्षा करिष्यन्ति, यस्मिन् विभागीयमन्त्री निर्मला भूरिया उपस्थिता भविष्यति।

१.४५–२.३० पर्यन्तं पश्चाद्वर्ग-अल्पसंख्यक-कल्याणविभागस्य समीक्षाम् करिष्यति, यत्र विभागीयराज्यमन्त्री (स्वतन्त्रप्रभार) कृष्णागौर उपस्थितः भविष्यति।

मध्याह्ने ३.३०–४.१५ वादनपर्यन्तं सामाजिकन्याय-निःशक्तज-कल्याणविभागस्य समीक्षा भविष्यति, यस्मिन् विभागीयमन्त्री नारायणसिंहकुशवाहा उपस्थितो भविष्यति। ४.१५–५.०० वादनपर्यन्तं कृषिकिसानकल्याण, उद्यानिकी,खाद्यप्रसंस्करणविभागस्य समीक्षाम् करिष्यति, यत्र विभागीयमन्त्री एदलसिंहकंसाणा तथा मन्त्री नारायणसिंहकुशवाहा उपस्थितौ भविष्यतः।

हिन्दुस्थान समाचार / अंशु गुप्ता