Enter your Email Address to subscribe to our newsletters

अरुणाचलेश्वरम्, 3 दिसंबरमासः (हि.स.)। तमिलनाडुराज्यस्य प्रसिद्धे अरुणाचलेश्वरमन्दिरे प्रवर्तमानस्य कार्तिगैमहादीपमहोत्सवस्य मुख्यः आयोजनः अद्य भविष्यति। परम्परानुसारं सायं 2,668 फुट् उन्नते अन्नामलैपर्वतशिखरे विशालो महादीपः प्रज्वालयिष्यते। अस्मिन् पवित्रसमये प्रायेण 30 लाखाधिकाः भक्ताः उपस्थिताः भविष्यन्तीति आशङ्का।
सायं षट्वादने एव तालवाद्यनिनादैः सह विशेषदीपः मन्दिरात् बहिः नीयते, सः च कोडिकम्बस्य समीपे स्थिते महादीपपात्रे संस्थाप्यते। अनन्तरं अर्थनारीश्वरस्य विशेषपूजापर्यन्तं दीपः पर्वतशिखरस्य दिशि आचार्यैः संकेतितः भविष्यति। संकेतं प्राप्तवन्तः पर्वतराजसमुदायस्य जनाः पर्वतशिखरे महादीपं प्रज्वाल्यिष्यन्ति। अयं दिव्यदीपः आगामीदशदिनपर्यन्तं निरन्तरं प्रज्वलिष्यति, दशयोजनपरिमिते प्रदेशे अपि दृश्यः भविष्यति।
विशेषपूजा धार्मिकचक्रम्अद्य प्रातःकाले मन्दिरद्वारोद्घाटनानन्तरं भगवान् अरुणाचलेश्वर उन्नामलैयम्मन् इत्येतयोः विशेषाभिषेकपूजा कृताः। विनायकसुब्रह्मण्यपराशक्त्यम्मन् चण्डिकेश्वरादिषु सर्वेषु सन्निधिषु अपि विधिवत् पूजा सम्पन्ना। ततः पञ्चस्तरीया परणीदीपस्य शोभायात्रा कृतवा मन्दिरपरिसरे संस्थापिता।
एतदायोजनं दक्षिणभारते प्राचीनतमेषु प्रतिष्ठितेषु धार्मिकपरम्परासु एकं मन्यते। अस्मिन् अवसरि हिन्दुधर्मकल्याणविभागमन्त्री सेकारबाबू, जिलाधिकारी तर्पकराजो, राज्यैथलेटिक्ससंघस्य उपाध्यक्षः काँबन् इत्यादयः अधिकारी उपस्थिताः।
भीडनियन्त्रणं सुरक्षाव्यवस्था चभक्तानां महद्भ्रमणं चिन्तयित्वा प्रशासनम् व्यापकां सुरक्षायातायातनियोजनव्यवस्थां प्रवर्तितम्। नगरस्य विभिन्नस्थानेषु 15,000 अधिकाः पोलिस्कर्मिणः नियुक्ताः। 1,060 सीसीटीवीकॅमरा (येषु 303 मन्दिरपरिसरे एव) संस्थापिताः। 24 निगराणीटावर्, 26 संवेदनशीलप्रदेशेषु अतिरिक्तम् गश्तनियन्त्रणं च स्थापितम्।
भक्तजनसंमर्दः सुव्यवस्थितुं 2,325 बसानां कृते 24 अस्थायिबसस्थानानि निर्मितानि। तदनु 4,764 विशेषबसानां विशालः बेडोः 11,293 यात्राः कर्तुं सज्जः, विशेषतः 3–4 दिसम्बरे विभिन्नजिलाभ्यः प्रेष्यते। महादीपदिने नगरे द्विचक्रवाहनानां निजीकृतकारणां च प्रवेशः न भविष्यति, अतः परिवहनविभागः अस्थायिबसस्थानानि गिरिवलम्पथं मन्दिरं च संयोजयन् 180 शटल्सेवाः चालयिष्यति। शटल्सेवायाः प्रति-यात्री-शुल्कं 10 रुप्यकाणि।
आपत्कालीनवाहनानां सुगमनिर्विघ्नाय कतिपयाः नियमितबसमार्गाः अपि परिवर्तिताः। प्रशासनं भक्तेभ्यः विनयं कुर्वन्ति यत् प्रतिबन्धानां पालनं कुर्वन्तु विशेषपरिवहनसेवां च उपयुञ्जन्तु, येन अनुभवः सुचारुः सुरक्षितः आध्यात्मिकसमृद्धिश्च स्यात्।उल्लेखनीयं यत् एषः महोत्सवः कार्तिकदीपमहोत्सवस्य अत्यन्तं प्रधानः विभागः, यस्य आरम्भः 24 नवम्बर 2025 तमे दिने कोडियेट् (ध्वजारोहणम्) इत्यनेन अभवत्। अस्य महोत्सवस्य अन्तर्गते प्रतिदिनं प्रातःकाले भगवान् गणेशस्य चन्द्रशेखरस्वामिनश्च पूजाक्रमः, रात्रौ तु पञ्चमुखोत्सवमूर्तीनां नगरभ्रमणम् सञ्चलति।-------------
हिन्दुस्थान समाचार