Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 दिसंबरमासः (हि.स.)।देशस्य प्रथमः राष्ट्रपति भारतरत्नडॉ राजेन्द्रप्रसादस्य जयन्तीमिमित्तं प्रधानमन्त्रिणा नरेन्द्रेण मोदिना अन्यैश्च तस्य प्रति श्रद्धाञ्जलिरर्पिता।
लोकसभाध्यक्षः ओंबिर्ला, कांग्रेसाध्यक्षः मल्लिकार्जुनखरगे, लोकसभायां विपक्षनेता राहुलगान्धी, बहूनां राज्यपालानां मुख्यमन्त्रिणां च सामाजिकमाध्यमे “एक्स” इत्यत्र डॉ राजेन्द्रप्रसादम् स्मरन्तः तस्य आदर्शान् योगदानं च प्रणम्य अभिनन्दितवन्तः।
प्रधानमन्त्री नरेन्द्रमोदिना सामाजिकमाध्यमे उक्तम्— स्वतंत्रतासंग्रामादारभ्य संविधानसभाध्यक्षपदे यावत् डॉ राजेन्द्रप्रसादेन या गरिमा समर्पणं स्पष्टता च देशसेवायां प्रदर्शिता सा सर्वथा प्रेरणादायिनी। तस्य साधुजीवनम्, राष्ट्रीयैक्ये अचलनिष्ठा च भावीपीढीनां मार्गदर्शकं भविष्यति।
लोकसभाध्यक्षः ओंबिर्ला अपि अवदत्— डॉ राजेन्द्रप्रसादः केवलं स्वतंत्रतायाः महानायकः नासीत्, अपि तु संविधानसभाध्यक्षरूपेण स्वदूरदर्शितां धैर्यं संवादकौशलं च अद्भुतरूपेण प्रदर्शितवान्। द्विवारं राष्ट्रपतिरूपेण तस्य कार्यकालः भारतस्य प्रशासने लोकतन्त्रव्यवस्थायां च अमिटछापं स्थापितवान्।
कांग्रेसस्य राष्ट्रीयाध्यक्षः मल्लिकार्जुनखरगे भारतसंविधाननिर्माणे डॉ प्रसादस्य अद्वितीयभूमिकां स्मरन् तं श्रद्धाञ्जलिं ददौ। तस्य निष्कामसेवा, सरलता, उच्चविचाराश्च सर्वदा प्रेरणास्रोतं भविष्यन्ति।
राहुलगान्धी अपि अवदत्— तस्य साधुजीवनम् नैतिकनेतृत्वं राष्ट्रसेवानुगतधरोहरश्च सर्वान् प्रेरयन्ति।
उत्तरप्रदेशमुख्यमन्त्री योगीआदित्यनाथः अवदत्— भारतस्य प्रथमः राष्ट्रपति महान् स्वतंत्रतासेनानी संविधानसभाध्यक्षश्च भारतरत्नडॉ राजेन्द्रप्रसादस्य जयन्त्यां विनम्रश्रद्धाञ्जलिः। तस्य आदर्शजीवनं विनम्रता राष्ट्रसेवाभावश्च सर्वभारतीयान् प्रेरयन्ति। तस्य योगदानैः भारतीयं लोकतन्त्रम् अधिकं सुदृढं जातम्।
उत्तराखण्डमुख्यमन्त्री पुष्करसिंधामी अवदत्— स्वतंत्रतासंग्रामे महत्त्वपूर्णभूमिकां निर्वहतः प्रथमस्य राष्ट्रपतिः भारतरत्नडॉ राजेन्द्रप्रसादस्य जयन्त्यां कोटिकोटिनमनम्। तस्य विनम्रता समर्पणं लोकतन्त्रस्य सिद्धान्तेषु दृढनिष्ठा च सर्वेभ्यः प्रेरणास्रोतं भवति।
दिल्लीमुख्यमन्त्री रेखागुप्ता अपि डॉ राजेन्द्रप्रसादं श्रद्धया प्रणनौ। सा अवदत्— देशस्य प्रथमस्य राष्ट्रपतिः भारतरत्नडॉ राजेन्द्रप्रसादस्य जयन्त्यां सादरं नमनम्। भारतीयगणराज्यस्य स्थिरता संतुलनम् नैतिकमार्गदर्शनं च प्रदातुं तस्य योगदानम् अद्वितीयम्। स्वतंत्रतासंग्रामात् संविधाननिर्माणपर्यन्तं तस्य तपस्वीभूमिका राष्ट्रं नूतनदिशां प्रदत्तवती। तेन भारतं जनमानसस्य भावनानुरूपं नेतृत्वं दत्तं लोकतन्त्रसंस्कृतिं चरित्राधिष्ठितां कृतवान्। तस्य आदर्शजीवनं सर्वान् राष्ट्रसेवायै प्रेरयति।
उल्लेखनीयं डॉ राजेन्द्रप्रसादस्य जन्म 3 दिसम्बर 1884 तमे वर्षे बिहारराज्यस्य सारणजिले जीरादेयी इत्यत्र अभवत्। गांधीमहात्मनः नेतृत्वे चम्पारणसत्याग्रहादारभ्य स्वतंत्रतासंग्रामस्य नानावस्थासु सः सक्रियभूमिकां निरवहत्।
----------------------
हिन्दुस्थान समाचार