Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 3 दिसंबरमासः (हि.स.)।संस्कृत भाषानुवादः
प्रधानमन्त्री नरेन्द्रमोदिनाऽद्य बुधवासरे संसद्-प्राङ्गणे पश्चिमबङ्गस्य भारतीयजनतापक्षस्य सांसदैः सह उपवेशनऽक्रियत। यस्मिन् सभायां सः राज्यस्य वर्तमानस्थितिं दृष्ट्वा पक्षस्य जनसम्बन्धान् दृढीकरणे बलं दत्तवान्। सः सन् 2026 तमे वर्षे भविष्यन्तीषु पश्चिमबङ्गविधानसभाचुनावेषु सिद्धतां सम्बन्ध्य सांसदैः सह चर्चां कृतवान्। विस्तीर्णप्रस्तुतिकाः सज्जीकरणं, समग्रभूम्यवलोकनं च कर्तव्यमिति निर्दिष्टवान्। तथा च केन्द्रस्य जनकल्याणपरियोजनाः जनानां मध्ये सम्यग् प्रख्यापयितुं आदेशम् अदात्।
प्रधानमन्त्रिणा सह सम्पन्नसभायाः अनन्तरं भाजपा-सांसद् भाजपा-प्रदेशाध्यक्षः श्यामिकभट्टाचार्यः माध्यमैः सह संवादे अवदत् यत् प्रधानमन्त्री आगामीविधानसभाचुनावार्थं सदैव सज्जतां विधातुम् सांसदान् उक्तवान्। मार्गनिर्देशनं दत्वा उक्तवान् यत् कार्यकर्तारः चुनावसिद्धतायां यत्नं कुर्वन्तु। सांसदान् च सोशल्-मीडियायां सक्रियान् भूत्वा केन्द्रपरियोजनाः जनान् प्रति प्रापयितुं निर्देशितवान्।
तदैव अवदत् यत् प्रधानमन्त्रिणा सांसदः खगेनमूर्मोः स्वास्थ्यस्थितिः अपि पृष्टा। प्रधानामन्त्री मोदी अवदत् यत् खगेनमूर्मोः विरुद्धं जातानां हिंसात्मकानां घटनानां विवरणं सम्यक् प्रकारेण जनानाम् अग्रे स्थापनीयम्, येन ते ज्ञातुं शक्नुवन्ति यत् तृणमूल्-काँग्रेस्-पक्षात् कथं हिंसाचारः क्रियते।
श्यामिकभट्टाचार्यः अवदत् यत् प्रधानमन्त्रिणा सांसदान् स्वक्षेत्रेषु विकासकार्यानां सह जनसहभागितावृद्धौ अपि ध्यानं दातव्यम् इति उक्तम्। सः खेल-महोत्सवम्, सोशल्-मीडियाऽभियानानि च जनसम्बन्धवृद्धये प्रभावशाली इति अभ्यधात्।
---------------
हिन्दुस्थान समाचार