Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 3 दिसंबरमासः (हि.स.)। केन्द्रीय-शिक्षा-मन्त्रिणा धर्मेन्द्रप्रधानेन भारतस्य प्रथम-राष्ट्रपतिम् ‘भारत-रत्न’ डॉ. राजेन्द्रप्रसादं जयंती-अवसरे सादरं नमनं कृतम्। सामाजिक-माध्यमेषु प्रकाशिते स्व-सन्देशे सः अवदत् यत्—डॉ. प्रसादस्य समग्रं जीवनं राष्ट्र-सेवायाः, त्यागस्य, जनहितम् च प्रति अदम्य-समर्पणस्य प्रतीकम् अस्ति।
धर्मेन्द्रप्रधानेन लिखितं यत्—स्वतन्त्रता-संग्रामे डॉ. राजेन्द्रप्रसादस्य भूमिकातः आरभ्य संविधान-निर्माण-काले तस्य दूरदर्शी-नेतृत्वपर्यन्तं, प्रत्येक-क्षणे तेन देशहितम् एव सर्वोपरि स्थापितम्। तस्य सरलता, दृढता, उत्कृष्टं नेतृत्वं च अद्यापि देशभक्तेः, कर्तव्यनिष्ठायाः, नैतिक-मूल्यानां च मार्गदर्शनं करोति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता