Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 3 दिसंबरमासः (हि.स.)।
राष्ट्रपतिः द्रौपदीमुर्मुः बुधवासरे अवदत् यत् सरकारस्य सह समाजोऽपि दिव्याङ्गजनानां हिते जागरूकः सक्रियश्च भवितुम् अर्हति। एवं कृत्यमाने सरकारस्य प्रगतिशीलप्रयत्नाः अधिकं बलं प्राप्स्यन्ति।
राष्ट्रपतिः अद्य दिव्याङ्गजनसशक्तीकरणाय वर्ष 2025 तमस्य राष्ट्रियपुरस्कारवितरणसमारोहस्य भागिनी अभवत्। अस्मिन् अवसरि सा अवदत्— “दिव्याङ्गजनाः न केवलं संवेदनशीलतायाः करुणायाश्च पात्राः, अपि तु समतुल्याधिकाराः तेषां स्वभाविकाः। हितधारकानां कर्तव्यं यत् समाजस्य राष्ट्रस्य च विकासयात्रायां ते समानभावेन सहभागी भवितुं शक्नुवन्ति इति सुनिश्चितुं।”
सा अवदत् यत् गतदशवर्षाणां मध्ये क्रीडाक्षेत्रे अस्माकं दिव्याङ्गपुत्रपुत्रिकाभिः शीघ्रतरं प्रगतेः मानदण्डाः स्थापिताः। वर्षे 2012 इत्यस्मिन् पैरालम्पिक्-क्रीडायां भारतस्य केवलं एकः पदकः प्राप्तः। किन्तु समाजस्य सरकारस्य च सजगता-सक्रियता च परिणामतः वर्ष 2024 इत्यस्य पैरालम्पिक्-क्रीडायां अस्माकं क्रीडकैः 29 पदकाः प्राप्ताः।
राष्ट्रपत्नी विज्ञापितवती यत् वर्षे 2024 इत्यस्मिन् राष्ट्रपति-भवने एकस्य कैफेटेरियस्य आरम्भः कृतः। तं दिव्याङ्गजनाः स्वयम् संचालयन्ति। तत्र आगच्छन्तः जनाः दिव्याङ्गजनानां कार्यकुशलतां अतिथिसत्कारं च अनुभवयन्ति। तत्र कार्यरताः युवा-दिव्याङ्गजनाः अपि अत्युत्साहिताः भवन्ति।
हिन्दुस्थान समाचार