Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 03 दिसंबरमासः (हि.स.)।
भारतीयरेलया यात्रिकसुविधां पारदर्शितां च बलीकर्तुं खिड़कीमाध्यमेन प्रदत्तेषु तात्कालचिटिकासु ओटीपीआधारितचिटिकाप्रणालीं प्रवर्तयितुं निर्णयो गृहीतः। एषा नवीना व्यवस्था आगामिदिवसषु देशव्यापकेषु समस्तेषु आरक्षणगवाक्षेषु प्रवर्तिता भविष्यति।
रेलमन्त्रालयस्य अनुसारम्, एषः उपायः तात्कालतसुविधायाः दुरुपयोगं निरोद्धुं, वास्तविकयात्रिकेभ्यः च अधिकसंधीन् दातुं क्रियमानः। जुलै 2025 तमवर्षे रेलयात्रायां ऑनलाइनतत्कालटिकटेषु आधारआधारितसत्यापनम् आरब्धम्। ततोऽनन्तरम् अक्टूबर 2025 तमे मासि सामान्यआरक्षणस्य प्रथमदिने ऑनलाइनचिकिकामारक्षितुम् ओटीपीआधारितप्रणाली प्रवर्तिता। उभयमपि कार्यं यात्रिकैः सुस्वीकृतम्, येन टिकटिंगप्रक्रिया अधिकं पारदर्शिनी जाता।
एतस्मिन् क्रमणि 17 नवम्बर 2025 तमदिने रेलवे तात्कालतचिटिकानां कृते आरक्षणगवाक्षेषु ओटीपीआधारितप्रणाल्याः पाइलट्-परियोजनां प्रारब्धवती। अधुना एषा सुविधा 52 यावत् ट्रेनिषु विस्तीर्णा अस्ति। अस्यां व्यवस्थायां तात्कालतटिकटं गृह्णतः यात्रिणः फोर्म् मध्ये निर्दिष्टे मोबाइलसङ्ख्यायाम् ओटीपी प्रेष्यते। ओटीपीसत्यापनानन्तरमेव चिटिका निर्गम्यते।
रेल्वेविभागस्य अधिकारिणां वचनेन, आगामिदिवसिषु एतां ओटीपीआधारिततत्कालआरक्षणप्रणालीं शेषासु सर्वासु ट्रेनिषु प्रवर्तयिष्यन्ति। एतेन टिकटिंगप्रक्रियायां पारदर्शितायाः सुरक्षायाः यात्रिकसुविधायाश्च विशिष्टवृद्धिः भविष्यति।
---------------
हिन्दुस्थान समाचार