प्रधानमंत्रिकार्यालयः, राजभवनस्य नाम परिवर्त्य सेवा तीरथं, लोक भवनम् इत्यादिकं मोदी सर्वकारस्य जन-केंद्रित दृष्टिं दर्शयति-डॉ. शिशुः
जम्मूः, 3 दिसंबरमासः (हि.स.)। जम्मूकश्मीरभाजपादलस्य प्रवक्ता डॉ हरिदत्तशिशुः प्रधानमन्त्रिकायालयस्य नाम परिवर्तनं सेवा तीर्थ इति, राजभवनस्य च नाम परिवर्तनं जेके लोकभवन इति इत्येतयोः ऐतिहासिकयोः निर्णययोः स्वागतं कृत्वा अवदत् यत् एतत् वस्तुतः लोकत
पीएमओ, राजभवन का नाम बदलकर सेवा तीरथ, लोक भवन करना मोदी सरकार की जन-केंद्रित दृष्टि को दर्शाता है-डॉ. शिशु


जम्मूः, 3 दिसंबरमासः (हि.स.)।

जम्मूकश्मीरभाजपादलस्य प्रवक्ता डॉ हरिदत्तशिशुः प्रधानमन्त्रिकायालयस्य नाम परिवर्तनं सेवा तीर्थ इति, राजभवनस्य च नाम परिवर्तनं जेके लोकभवन इति इत्येतयोः ऐतिहासिकयोः निर्णययोः स्वागतं कृत्वा अवदत् यत् एतत् वस्तुतः लोकतन्त्रस्य मूलभावनां अस्माकं प्रधानमन्त्रिणः च दृष्टिकोणं प्रकाशयति। यस्य शासनस्य मूलतत्त्वम् एव जनसेवा अस्ति, तस्य सर्वम् आचरणं तस्य दर्शनस्य अनुरूपं भवति, यत्र राष्ट्रं प्रथमे, दलः परं, स्वयम् अन्त्ये इति नित्यम् आचर्यते।

डॉ शिशुः प्रेसवक्तव्ये अवदत् यत् केन्द्रीयसरकारा गतसप्तदशवर्षकालस्यान्तर्गतम् अनेकान् निर्णयान् कृतवती या निर्णयाः ब्रिटिशमानसिकतायाः अवशिष्टेषु गर्वभावनां जनयन्ति, भारतीयीकरणस्य आह्वानं कुर्वन्ति च। एते चिन्हाः स्वातन्त्र्यलाभस्य षट्दशकानन्तरमपि शासनस्य विविधाङ्गेषु वर्तमानाः आसन्।

डॉ शिशुः अवदत् यत् जम्मू कश्मीरराजभवनस्य नामकरणं लोकभवन इति, राजनिवासलद्दाखस्य नामकरणं लोकनिवास इति च भारतसरकारस्य गृह मंत्रालयेन सर्वेषां राज्यराज्याधीनप्रदेशानां प्रति प्रदत्तनिर्देशानुसारं कृतम्। अस्य निर्देशस्य अभिप्रायः औपनिवेशिकयुगसम्बद्धान् सर्वान् चिह्नान् निराकर्तुं भवति। एषः परिवर्तनः सांस्कृतिकस्य रूपान्तरणस्य, सेवाप्राधान्यस्य च परमार्थं दर्शयति, यत् अस्मान् पुनः स्वैः ऐतिहासिकैः मूल्यानि सह संयोजयति।

---------------

हिन्दुस्थान समाचार