रूसस्य राष्ट्रपतिः पुतिनः अमेरिकी दूतः विटकॉफ इत्यनयोः मध्ये वार्ता पूर्णा, परिणामस्य प्रतीक्षा
मास्को, 03 दिसंबरमासः (हि.स.)। अद्य किञ्चिद् पूर्वमेव रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिन तथा अमेरिकीयप्रतिनिधिमण्डलस्य मध्ये वार्ता समाप्ता। एषा राजनयिकवार्ता गोप्यकक्षे न्यूनातिन्यूनं पञ्चघण्टानां कालपर्यन्तं प्रचलिता। अधुना सर्वं विश्वं वार्
रूस के राष्ट्रपति व्लादिमीर पुतिन और अमेरिकी प्रतिनिधिमंडल बैठक में। फोटो - इंटरनेट मीडिया


मास्को, 03 दिसंबरमासः (हि.स.)।

अद्य किञ्चिद् पूर्वमेव रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिन तथा अमेरिकीयप्रतिनिधिमण्डलस्य मध्ये वार्ता समाप्ता। एषा राजनयिकवार्ता गोप्यकक्षे न्यूनातिन्यूनं पञ्चघण्टानां कालपर्यन्तं प्रचलिता। अधुना सर्वं विश्वं वार्ताफलस्य प्रतीक्षां करोति। एषा चर्चाः अमेरिकीयराष्ट्रपतिना डोनाल्ड ट्रम्पेन निर्मितायाः अष्टाविंशतिसूत्रयुक्तायाः शान्तियोजनायाः विषये केन्द्रिताः आसन्, या योजना रूसयुक्रेनयोः युद्धनिवारणार्थं रचिता अस्ति।

सीएनएन समाचारमाध्यमस्य अनुसारं पुतिन तथा अमेरिकीयप्रतिनिधिमण्डलस्य क्रेम्लिन् बैठक समाप्ता। पुतिनस्य सह अमेरिकायाः विशेषदूतः स्टीव विटकॉफ जेरेड कुशनर च उपस्थितौ आसाताम्। रूसस्य राज्यमाध्यम आरआईए नोवोस्ति सूचयति यत् बैठकः प्रायः पञ्चघण्टानां कालं यावत् अभवत्।

क्रेम्लिन् प्रवक्त्रा दिमित्री पेस्कोवेन उक्तं यत् पुतिनेन सह तस्य सहयोगिनौ यूरी उशाकोव किरिल दिमित्रीव च वार्तासु सम्मिलितौ। एषा गोष्ठी अत्यन्तं महत्वपूर्णा इति मन्यते।

अस्य प्रसङ्गे रूसदेशस्य राजनयिकः आन्द्रेय केलिन् अवदत् यद् “रूसस्य शान्तेः -अनुबंधानां स्वीकरणं इदानीमेव युक्रेनस्य हिते भवेत्।”

---------------

हिन्दुस्थान समाचार