Enter your Email Address to subscribe to our newsletters

रांची, 03 दिसंबरमासः (हि.स.)।
ग्रामीणविकासपंचायतराज्यमन्त्रिणी दीपिकापाण्डेयसिंह इत्यस्याः अध्यक्षतायां बुधवासरे प्रोजेक्ट्–भवने झारखण्डराज्यग्रामीणरोजगारगारण्टीपरिषदस्य बैठकाऽभवद्। अस्मिन् सभासु मनरेगाकार्मिकाणां हितेषु, योजनानां प्रभाविशीलक्रियान्वयने, ग्रामीणरोजगार–सशक्तीकरणे च विस्तीर्णा चर्चा अभवत्। मन्त्रिण्या स्पष्टो निर्देशः दत्तः यत् मनरेगाकार्मिकाणां मानदेयं तत्क्षणमेव त्रिंशदंशेन वर्ध्यताम्, येन तेषां आर्थिकसुरक्षा कार्यक्षमता च सुदृढे भवेताम्।
मन्त्रिण्या मनरेगाकार्मिकाणां कृते समूह–बीमासेवनं, दुर्घटनाबीमा, जीवनबीमा च उपलब्धं कर्तुं पृथक् प्रस्तावः सज्जीकरणीयः इति आदिष्टम्। तेषां ग्रेड–पे इत्यस्य विषयम् अपि शीघ्रं प्रस्तावेनेव उपस्थापनीयम् इति विभागं प्रति उक्तम्।
ग्रामीणजनानां यः रोजगाराधिकारः प्रदत्तः अस्ति, तस्य दृढता, निरन्तरता च सुनिश्चितुं सरकारस्य मुख्यप्राथमिकता अस्ति। अस्मिन् सभासु राज्यस्य सर्वत्र मनरेगान्तर्गतं प्रवर्तमानेभ्यः कार्येभ्यः समीक्षा कृता, आगामिकाले तस्य अधिकसशक्तक्रियान्वयनस्य रणनीतिश्च विनिर्णीता।
मन्त्रिणी उक्तवती यत् दीदी–बाडी–योजनायाः सुदृढतया ग्रामीणस्त्रीभ्यः नूतना शक्तिः प्राप्ता, मनरेगेन च राज्ये अभूतपूर्वं मैन्–डेज् निर्माणं कृत्वा ग्रामीण–अर्थव्यवस्थां दृढीकृतम्। केन्द्रसरकारया विनातयारीनां प्रवर्तितया तन्त्रप्रणाल्या निमित्तं द्रव्यभरण–प्रक्रियायां या विलम्बः जातः, तस्य विषयेऽपि विस्तीर्णा चर्चा अभवत्।
सा विश्वसिति स्म यत् विभागः केन्द्रसरकारेण सह सकारात्मक–समन्वयेन कार्यं करोति, समस्या च शीघ्रमेव समाधानं प्राप्स्यति। अवसरम् अन्येऽपि अनेकाः जनाः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार