Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 3 दिसंबरमासः (हि.स.)। उत्तराखण्डे युवा-आपन्मित्रयोजनान्तर्गतं देहरादून-जनपदे युवकेभ्यः आपदा-प्रबन्धनस्य प्रशिक्षणं दीयते। अस्य प्रशिक्षणस्य उद्देश्यं आपदा-न्यूनीकरणेन सह जनानां जागरूकतावर्धनम् अपि अस्ति।
देहरादून-जनपदे ८ दिसम्बर २०२५ पर्यन्तं प्रवर्तमाने अस्मिन् प्रशिक्षणकार्यक्रमे युवानः आपदाकाले प्रथम-प्रत्युत्तरदाता इति रूपेण समर्थाः करिष्यन्ति। आपदा-प्रशिक्षण-कार्यक्रमस्य ह्यः उद्घाटनं कृत्वा कर्नल् आदित्य-जॉन्-पॉल्, मेजर् शशि-मेहता, सूबेदार्-मेजर् लक्ष्मणसिंहः, सूबेदार्-मेजर् जियालालः, मानद-कप्तान् कृष्ण-तडियालः, हवलदार् राकेशकुमारः च आपदा-मित्रेभ्यः आवश्यकजानकार्यः दत्तवन्तः तथा प्रशिक्षणेषु गम्भीरतां प्रदर्शयितुम् उपदिष्टवन्तः।
राज्य-आपदाप्रबन्धनप्राधिकरणेन अस्मिन् प्रशिक्षणेतर आपदा-प्रबन्धन-अधिनियमः २००५ तस्य संस्थागत-संरचना च, भूकम्पः, भूस्खलनम्, त्वरित-प्रवाहः, बाढः, वनाग्नितः सुरक्षा, प्राथमिकोपचारः, घायप्रबन्धन-तन्त्रविद्या, अन्वेषणं च उद्धारः, सञ्चार-प्रबन्धनं चेतावनी-तन्त्रं च, तथा गुरुवस्तूनां सुरक्षितं स्थानान्तरणम् इत्यादीनि विषयाः अध्याप्यन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता