Enter your Email Address to subscribe to our newsletters

मास्को, 03 दिसंबरमासः (हि.स.)।
अमेरिकायाः विशेषदूतौ स्टीव विटकॉफ तथा जेरेड कुशनर प्रतिनिधिमण्डलसमेत रूसदेशस्य राष्ट्रपति व्लादिमीर पुतिनम् उपगम्य स्वदेशं प्रत्यागच्छन्ति। ट्रम्पस्य युक्रेनदेशे शान्तिस्थापनार्थं प्रस्तुतं प्रस्तावं वहन्तौ विटकॉफ अन्ये च पुतिनेन सह समीपे पञ्चघण्टपर्यन्तं चर्चा कृतवन्तौ। अद्यापि उभयोः मध्ये युद्धनिरोधस्य कस्यापि लक्षणस्य दर्शनं न भवति। प्रतिनिधिमण्डलस्य रूसेन सह वार्तालापः निष्फलः जातः।
अमेरिकायाः सीबीएस न्यूज इति संवादवाहिन्याः अनुसारं वार्तासमाप्तेः अनन्तरं एतस्य घटनाक्रमस्य प्रथमप्रतिक्रिया पुतिनस्य वरिष्ठसहयोगिना यूरी उशाकोवेन प्रदत्ता। स अवदत् यत् युक्रेनशान्तिप्रस्तावस्य विषये अद्यापि बहुकर्म कर्तव्यम् अस्ति। ट्रम्पस्य प्रस्तुतस्य प्रस्तावस्य विषये विचारार्थं बैठक प्रायेण पञ्चघण्टपर्यन्तं प्रवृत्ता। एषा बैठकः सप्ताहान्ते फ्लोरिडा प्रदेशे अमेरिकीययुक्रेनीअधिकारिणां मध्ये जातस्य संवादस्य अनन्तरमेव अभवत्।
यूरी उशाकोवेन पत्रकारान् प्रति उक्तम् यत् संवादः नूनं उपयोगी आसीत् किन्तु युक्रेनदेशे दीर्घकालात् प्रचलमानस्य क्षेत्रीयसमस्यायाः विषये काचिदपि चर्चा नाभूत्। स क्षेत्रीयविषयः केवलं रूसस्य न, अपि तु अमेरिकीयानां दृष्ट्या अपि अत्यन्तं आवश्यकः। स अवदत् यत् अद्यावधि कश्चन समझौतो न जातः, किन्तु केचन अमेरिकीयप्रस्तावाः किञ्चित् शोभनाः इव दृश्यन्ते, तथापि तेषां विषये विस्तृतवार्ता कर्तव्या। केचन उपायाः ये अस्मान् प्रदत्ताः तेऽपि अस्मभ्यं साधवः इव दृश्यन्ते।
उशाकोवेन विशेषतया उक्तम्— “वयं युक्रेनस्य संकटस्य समाधानस्य समीपे नात्र स्थिताः, अद्यापि बहुकर्म शेषं अस्ति।” स अवदत् यत् अमेरिकीयप्रतिनिधिमण्डलेन गतमासे प्रस्तुतायाः अष्टाविंशतिसूत्रयुक्तायाः शान्तियोजनायाः अतिरिक्तम् अन्ये चत्वारि दस्तावेजानि अस्मत्क्षेपे समर्पितानि। यूरी उशाकोवेन एतेषां चत्वारः दस्तावेजानां विषयः न प्रकाशितः। स अवदत् यत् रशिया अमेरिका च वार्ताया विशेषविवरणानि अगोचरानि स्थापयितुं परिसम्मतवन्तौ।
उशाकोवेन अवदत् यत् पुतिन ट्रम्पयोः मध्ये अद्यापि न काचित् प्रत्यक्षवार्तानियोजना अस्ति। पुतिनेन विटकॉफ कुशनराभ्यां ट्रम्पस्य कृते केचन आवश्यकसन्देशाः प्रेषिताः। उशाकोवेन उक्तम् यत् विटकॉफ कुशनरौ अमेरिकं प्रत्यागन्तारौ, मास्कोवार्तायाः विषये ट्रम्पेन सह चर्चां कृत्वा अनन्तरं रूसदेशीयाधिकारिभिः दूरवाणीसम्पर्कं करिष्यतः।
---------------
हिन्दुस्थान समाचार