Enter your Email Address to subscribe to our newsletters

ढाका, 03 दिसंबरमासः (हि.स.)।
बाङ्ग्लादेश नेशनलिस्टपक्षस्य बी एन पी अध्यक्षायाः देशस्य प्रथममहिलाप्रधानमंत्रिणो बेगम खालिदा जियायाः शारीरिकस्थितिरेव यदि न परिवर्तते तथा च सा उच्चचिकित्सार्थं विदेशं नेतुं योग्या न भवति, तर्हि तदीयपुत्रः तारिक रहमानः शीघ्रमेव ब्रिटेनदेशात् बाङ्ग्लादेशं प्रत्यागन्तुम् अर्हति। स दीर्घकालात् लण्डननगरे निर्वासने वसति। अद्य ब्रिटेन चीनदेशाभ्यां द्वौ वैद्यदलं ढाका नगरं प्रति आगच्छतः। ते खालिदा जिया इत्यस्याः स्वास्थ्यावस्थां परीक्ष्य चिकित्सकसमितेः सम्मुखं स्वमतं प्रदास्यन्ति। अनन्तरं समिति निर्णयो करिष्यति—खालिदायाः उपचारः विदेशे करणीयः अथवा बाङ्ग्लादेशे एव।
एते विवरणानि प्रोथोम अलो इति समाचारपत्रस्य प्रतिवेदने निर्दिष्टानि। तत्र उक्तं यत् यदि विदेशगमनयोग्यता भवति तर्हि सिंगापुर राज्यं प्राथमिकतया विचारितं भविष्यति, यतः ढाका नगरात् सिंगापुर देशस्य दूरी न्यूनास्ति। यद्य सा तत्र नेतव्या, तर्हि तारिक रहमान अपि मातुः समीपं निवसति इति हेतोः सिंगापुरं गमिष्यति। यदि परिस्थितयः खालिदायाः विदेशगमनं न अनुमन्यन्ते, तर्हि तारिक रहमान अतीव शीघ्रमेव लण्डन् नगरात् बाङ्ग्लादेशं प्रस्थितः भविष्यति।
बी एन पी महासचिवः मिर्जा फखरुल इस्लाम आलमगीर इत्यनेन मंगलवारसायं प्रायेण षट्वादनानन्तरं फेसबुक इति माध्यमे कृतपोस्टे एतदेव सङ्केतितम्।
अस्य वर्षस्य आरम्भे जनवरीमासे खालिदा जिया उच्चचिकित्सार्थं लण्डन् नगरं गता आसीत्। प्रोथोम अलो इत्यस्य अन्यस्मिन् प्रतिवेदने निर्दिष्टं यत् देशस्य त्रयः वरिष्ठसैन्याधिकारी मंगलवाररात्रौ प्रायेण नववादनसमये ढाकानगरस्थे एवरकेयर् चिकित्सालये उपचरणार्थं उपविष्टां खालिदा जिया इत्यस्याः स्थितिं ज्ञातुं प्राप्तवन्तः। ते चिकित्सकसमितिसदस्यैः सह संवादं अपि कृतवन्तः। खालिदा तत्र 23 नवंबर तमे दिनात् उपविष्टा अस्ति, तस्याः स्थितिरेव अतीव गम्भीरा।
इण्टर सर्विसेज़ पब्लिक रिलेशन इत्यस्य अनुसारं बाङ्ग्लादेशस्य सेनाध्यक्षः जनरल् वकर उज ज़मान नौसेनाध्यक्षः एडमिरल् एम नजमुल् हसन वायुसेनाप्रमुखः एयरमार्शल् हसन महमूद खान इत्येते पूर्वप्रधानमंत्रिणं खालिदा जिया इत्यां द्रष्टुं गतवन्तः।
एतेनैव समये ब्रिटेन् चीनदेशाभ्यां द्वौ विशेषज्ञचिकित्सादलौ अद्य ढाकानगरं प्रति आगन्तारौ स्तः। उभे दलौ विमानस्थानकात् साक्षात् चिकित्सालयं प्रति गमिष्यतः। अस्य दलयोः प्रतिवेदनं एव निर्णायकं भविष्यति यत्खालिदायाः उपचारः विदेशे करणीयः अथवा स्वदेशे एव कर्तव्यः।
---------------
हिन्दुस्थान समाचार