Enter your Email Address to subscribe to our newsletters

लखनऊ, 3 दिसंबरमासः (हि.स.)। बहुजनसमाजपक्षस्य (बसपा) राष्ट्राध्यक्ष मायावत्याः निर्णयः एषः यत् सा अधुना महापुरुषाणां समाजसुधारकानां च जयन्ती-पुण्यतिथिषु तेषां स्मारकस्थलेषु स्वयम् न यास्यति, किन्तु स्वकार्यालये स्वनिजनिवासे वा एव तेषां प्रति श्रद्धासुमनः अर्पयिष्यति।
बसपा प्रमुखा मायावती बुधवासरे, बाबा साहेब डॉ भीमरावाम्बेडकरस्य पुण्यतिथेः पूर्वं, एतत् आशययुक्तम् मतं स्वस्य “सोशल्-मीडिया एक्स” इत्यत्र प्रकाशितवती। सा दीर्घे पोस्ट् मध्ये लिखितवती— “यथा सर्वविदितं, उत्तरप्रदेशे बसपा-सरकारस्य काले ‘बहुजनसमाजे’ समये-समये उत्पन्नैः महान् सन्तैः गुरुभिः महापुरुषैः च विशेषतया महात्मा ज्योतिबा फुले, राजर्षि छत्रपति शाहूजी महाराज, श्रीनारायणगुरुः, बाबा साहेब डॉ आम्बेडकरः, कांशीराम इत्यादिभिः अनेकप्रकारेण आदरः सम्मानश्च प्रदत्तः। तत्र जातिवादी-पार्टीनां प्रशासनकाले तु एतेषां महापुरुषाणां सदा अवहेलना तिरस्कारश्च एव जातः।”
अनन्तरं सा लिखति यत् “अनुभवः दर्शयति यत् मम आगमनसमये सुरक्षा-व्यवस्थायाः नाम्ना सरकारी-आयोजनं क्रियमाणं, यद्यपि अतीव आवश्यकम्, तथापि जनानां कृते बहु परेशानी-दुःखप्रसवकं भवति। मम तिष्ठने कालपर्यन्तं जनाः मुख्यस्थलात् अत्यन्तं दूरे स्थगिताः भवन्ति। अतः अद्यप्रभृति मया निश्चयः कृतः यत् अहं तेषु स्थलेषु स्वयम् न गच्छामि, किन्तु स्वनिवासे अथवा पक्षकार्यालये एव सर्वेषां महापुरुषाणां जयन्ती-पुण्यतिथिषु श्रद्धासुमनः अर्पयिष्यामि।”
मायावत्याः पोस्टे अपि लिखितम्— “बाबा साहेबस्य पुण्यतिथौ, पश्चिम-उत्तरप्रदेशं विहाय, उत्तरप्रदेशस्थाः पक्षकार्यकर्तारः तस्याः अनुयायिनश्च मम निर्देशेन आगामि 6 दिसम्बरे लखनऊ-स्थिते ‘डॉ भीमराव अम्बेडकर सामाजिक परिवर्तन-स्थले’ उपस्थिताः स्युः, तत्र स्वपरिवारैः सह श्रद्धासुमनः अर्पयिष्यन्ति। पश्चिम-यूपी, दिल्ली, उत्तराखण्ड-राज्येषु वसन्तः जनाः तु नोएडायाः ‘राष्ट्रीय दलित प्रेरणास्थले’ आगत्य श्रद्धाञ्जलिं दास्यन्ति।”
-------------------
हिन्दुस्थान समाचार