Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३० दिसम्बरमासः (हि.स.)।
भारतीयजनतादलस्य प्रमुखनेता तथा केन्द्रीयगृहमन्त्री-सहकारितामन्त्री अमितशाहः अद्य पश्चिमबङ्गालस्य राजधान्यां कोलकातायां प्रवासे भविष्यति। राजधान्यां तस्य द्वौ महत्वपूर्णौ कार्यक्रमौ निर्धारितौ स्तः। एतां सूचनां भा.ज.पा.दलेन स्वस्य आधिकारिके एक्स-पटले उल्लिखितम्।
भा.ज.पा.दलस्य एक्सपटलानुसारं केन्द्रीयमन्त्री अमितशाहः पूर्वाह्णे सार्धैकादशवादने (११:३0) कोलकातायां संवाददाता-सम्मेलनं सम्बोधयिष्यति। एतत् संवाददाता-सम्मेलनं राजधानीस्थिते “ऑल्ट-एयर”-निवासस्थले (होटल) आयोजितं भविष्यति। तस्मात् प्रायः द्विघण्टानन्तरमेव अस्मिन्नेव निवासस्थले भा.ज.पा.प्रदेश-कार्यकारिणी-समितेः सभा आहूता अस्ति। अस्यां सभायां भा.ज.पा.दलस्य नेता अमितशाहः उपस्थितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता