डॉ विक्रम साराभाई इत्यस्य पुण्यतिथौ मुख्यमंत्री अददात् श्रद्धांजलिम्
गुवाहाटी, 30 दिसंबरमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा भारतस्य महतो वैज्ञानिकस्य, अन्तरिक्षअनुसन्धानस्य अग्रदूतस्य, इसरो-पूर्वाध्यक्षस्य च डॉ. विक्रमसाराभायिनः पुण्यतिथौ तस्मै भावपूर्णं श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 30 दिसंबरमासः (हि.स.)।

असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा भारतस्य महतो वैज्ञानिकस्य, अन्तरिक्षअनुसन्धानस्य अग्रदूतस्य, इसरो-पूर्वाध्यक्षस्य च डॉ. विक्रमसाराभायिनः पुण्यतिथौ तस्मै भावपूर्णं श्रद्धाञ्जलिं अर्पितवान्। मुख्यमन्त्रिणा अद्य स्वस्य सामाजिकमाध्यम-सन्देशे उक्तं यत् डॉ. विक्रमसाराभायी भारतस्य वैज्ञानिकचेतनायाः अन्तरिक्षयात्रायाश्च आधारशिला स्थापयितुः दूरदर्शिनः व्यक्तित्वं आसित्, यस्य मार्गदर्शनमध्ये देशेन अन्तरिक्षविज्ञानक्षेत्रे ऐतिहासिकाः सिद्धयः प्राप्ताः।

डॉ. सरमा अवदत् यत् डॉ. साराभायिणः दूरदर्शी-चिन्तनम्, समर्पणं राष्ट्रनिर्माणे च योगदानं आगामिसंततीनां कृते प्रेरणास्रोतं भविष्यति, राष्ट्रं च तं श्रद्धया कृतज्ञतया च सदा स्मरति।

हिन्दुस्थान समाचार