भोपाल-नगरे अद्य स्वदेशी-सङ्कल्प-रथ-यात्रायाः भविष्यति समापनम्
भोपालनगरम्, ३० दिसम्बरमासः (हि.स.)। अखिल-भारतीय-व्यापारी-परिषद् (कैट) तथा स्वदेशी-जागरण-मञ्चः इत्यनयोः संयुक्त-तत्त्वावधाने १५ अक्टूबरमासे २०२५ तमे वर्षे महाराष्ट्रस्य नागपुर-नगरात् आरब्धा स्वदेशी-सङ्कल्प-यात्रा अद्य मङ्गलवासरे भोपालनगरे समाप्स्यते
भोपाल में स्वदेशी संकल्प रथ यात्रा का आज होगा समापन


भोपालनगरम्, ३० दिसम्बरमासः (हि.स.)। अखिल-भारतीय-व्यापारी-परिषद् (कैट) तथा स्वदेशी-जागरण-मञ्चः इत्यनयोः संयुक्त-तत्त्वावधाने १५ अक्टूबरमासे २०२५ तमे वर्षे महाराष्ट्रस्य नागपुर-नगरात् आरब्धा स्वदेशी-सङ्कल्प-यात्रा अद्य मङ्गलवासरे भोपालनगरे समाप्स्यते। भोपाल-नगरे न्यू-मार्केट-स्थिते खेड़ापति-हनुमान-मन्दिर-चतुष्पथे यात्रायाः समापनावसरे केन्द्रीय-मन्त्री दुर्गादास-उइके, भा.ज.पा.प्रदेशाध्यक्षः हेमन्तखण्डेलवालः, विधायकौ भगवान्-दास-सबननी, जितेन्द्र-गुप्तः, अखिल-भारतीय-अधिकारी सुधीर-दाते, स्वदेशी-जागरण-मञ्चस्य क्षेत्र-संङ्घटकः केशव-दुबोलिया इत्यादयः उपस्थिताः भविष्यन्ति।

उल्लेखनीयं यत् १५ अक्टूबरमासे २०२५ तमे वर्षे नागपुर-नगरात् स्वदेशी-सङ्कल्प-यात्रायाः शुभारम्भः अभवत्। एषा यात्रा महाराष्ट्र-छत्तीसगढ़-प्रदेशयोः सर्वेषु जनपदेषु तथा विविधेषु नगरेषु सञ्चरन्ती सफलतया भोपाल-नगरं प्राप्तवती। मध्यप्रदेशे अस्याः महत्वपूर्ण-यात्रायाः प्रवेशः १ दिसम्बरमासे पांढुरना-नगरात् अभवत्। यात्राकाले जनैः नगर-बसती-स्थानेषु सर्वत्र भव्यं स्वागतं कृतम्। यात्रायाम् अतिथिभिः, बुद्धिजीविभिः, समाजसेविभिः स्वदेशी-विचाराः प्रस्तुताः, तथा नागरिकेभ्यः स्वदेशी-स्वीकर्तुं सङ्कल्पः प्रदत्तः। अस्यां यात्रायां स्थानीय-जनप्रतिनिधयः, विधायकाः, सांसदाः अपि सहभागीभूताः।

स्वदेशी-जागरण-मञ्चेन अवबोधयत् यत् प्रधानमन्त्री नरेन्द्र-मोदिना प्रवर्तितम् ‘आत्मनिर्भर-भारतम्' इति राष्ट्रीय-लक्ष्यं देशस्य आर्थिक-सशक्तिकरणाय नूतनां दिशं ददाति। ‘वोकल् फ़ॉर लोकल्’ इत्यस्य आह्वानं तथा ‘स्वदेशी अपनाओ, देश बचाओ’ इति राष्ट्रीयोद्घोषणा जन-जनं प्रति प्रसारयितुं स्वदेशी-जागरण-मञ्चः तथा व्यापारीणां प्रतिनिधित्वं वहन् अखिल-भारतीय-संङ्घटनं कैट् संयुक्तरूपेण एतां यात्रां सम्पूर्णदेशे आयोजयति। कैट्व्या-पारीणां समस्यासमाधाने, हित-संरक्षणे, तथा सर्वकारेण सह सकारात्मक-संवाद-निर्माणे अग्रणीं भूमिकां निर्वहति।

यात्रायाः मुख्य-सन्देशोऽयं यत् के उत्पादकाः भारतीय-स्वदेशीयाः सन्ति, के च वैदेशीयाः, तयोः परिचयस्य सरलः व्यापकश्च मार्गः, स्वदेशी-वस्तु-क्रयणेन विदेशी-मुद्रायाः संरक्षणम्, देशीयमुद्रायाः देशीय-उद्योगपतिषु स्थायित्वेन उद्योग-विस्तारस्य बलम्, स्वदेशी-उत्पाद-स्वीकरणेन रोजगार-सृजनम्, तथा नूतन-उद्योगाणां कृते आवश्यक-आधारभूत-संरचनायाः विकासः इत्यादीनां विषयाणाम् अवबोधनम् अस्ति।

अखिल-भारतीय-व्यापारी-परिषदः प्रदेशाध्यक्षः सुनील-अग्रवालः तथा स्वदेशी-जागरण-मञ्चस्य यात्रा-समन्वयकः महेन्द्र-सिंह-चौहानः अवदताम् यत् स्वदेशी-स्वीकरणे न केवलं देशस्य अर्थव्यवस्था सुदृढी भवति, अपि तु अस्माकं भविष्यं सुरक्षितं समृद्धं च भवति। तौ यात्रायाः सफलतायै नागरिकान् अधिकसंख्यया उपस्थातुम् आह्वानं कृतवन्तौ।

हिन्दुस्थान समाचार / Dheeraj Maithani