Enter your Email Address to subscribe to our newsletters

रायपुरम् 30 दिसंबरमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः अद्य मङ्गलवासरे झारखण्डराज्यस्य भ्रमणे भविष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री सायः अद्य प्रातः ११ वादने जशपुरात् झारखण्डदेशस्य दिशि प्रस्थिताः भविष्यन्ति। प्रातः ११.२० वादने स्वर्गीयकार्तिकउरांवस्य मूर्तौ श्रद्धाञ्जलिं दास्यन्ति। प्रातः ११.४० वादने अन्तरराज्यीयजनसांस्कृतिकसङ्गमसमारोहे बगीचा-रायडीहनाम्नि स्थलस्य मध्ये सहभागी भविष्यन्ति। मध्याह्ने १.२० वादने पुनः जशपुरं प्रत्यावर्तिष्यन्ति।
---------------
हिन्दुस्थान समाचार