Enter your Email Address to subscribe to our newsletters

रांची, 30 दिसम्बरमासः (हि.स.)। झारखण्ड-राज्यस्य मुख्यमंत्री हेमन्तसोरेनः तथा विधायक कल्पनासोरेनः मङ्गलवासरस्य प्रातःकाले लोकभवने राष्ट्रपतिं द्रौपदीं मुर्मूं समुपेत्य साक्षात्कारं कृतवन्तौ। एषा भेंटवार्ता शिष्टाचाररूपा आसीत्।
तदनन्तरं राष्ट्रपतिः लोकभवनात् गुमला-नगरं प्रति प्रस्थितवती। तत्र सा रायडीह-प्रखण्डे आयोज्यमाने अन्तरराज्यीय-जनसांस्कृतिक-समागमे ‘कार्तिक-जतरा 2025’ इत्यस्मिन् मुख्य-अतिथिरूपेण सहभागं करिष्यति।
---------------
हिन्दुस्थान समाचार