मुख्यमंत्री डॉ एपीजे अब्दुल कलामविज्ञाननगरस्य कृतवान् निरीक्षणम्
पटना, 30 दिसम्बरमासः (हि.स.)। मुख्यमंत्री नीतिशकुमारः अद्य पट्नायाः राजेन्द्रनगरस्थे 21 एकर्-विस्तीर्णे भूमिखण्डे नवनिर्मितस्य डॉ. ए. पी. जे. अब्दुल् कलाम् विज्ञान-नगरेः विभिन्नभागानाम् निरीक्षणं कृतवान्। तस्मिन्नवसरे सः समग्रपरिसरस्य विभिन्न-दीर्
मुख्यमंत्री साइंश सिटी का निरीक्षण करते हुए


पटना, 30 दिसम्बरमासः (हि.स.)।

मुख्यमंत्री नीतिशकुमारः अद्य पट्नायाः राजेन्द्रनगरस्थे 21 एकर्-विस्तीर्णे भूमिखण्डे नवनिर्मितस्य डॉ. ए. पी. जे. अब्दुल् कलाम् विज्ञान-नगरेः विभिन्नभागानाम् निरीक्षणं कृतवान्। तस्मिन्नवसरे सः समग्रपरिसरस्य विभिन्न-दीर्घिकानां वैज्ञानिकप्रदर्शानां च सूक्ष्ममवलोकनं कृतवान्। मुख्यमंत्री तत्र उपस्थितैः बालेभ्यः सह मिलित्वा तेषां उत्साहवर्धनम् अपि अकरोत्।

निरीक्षणक्रमे भवननिर्माणविभागस्य सचिवः कुमाररवि नामकः मुख्यमन्त्रिणं प्रति डॉ. ए. पी. जे. अब्दुल् कलाम् विज्ञान-नगरे विद्यमानानां सुविधानां व्यवस्थापनस्य च विषये विस्तीर्णां जानकारी दत्तवान्। तेन उक्तं यत् अस्मिन् विज्ञान-नगरे विज्ञानाधारिताः पञ्च दीर्घिकाः, 269 रोचकाः वैज्ञानिकप्रदर्शाः, सभागारम्, 4D-रङ्गगृहम्, छात्र-शिक्षकाणां कृते वसतिगृह-सुविधा च प्रमुखाकर्षणानि सन्ति।

निरीक्षणकाले मुख्यमन्त्रिणा उक्तं यत् डॉ. ए. पी. जे. अब्दुल् कलाम् विज्ञान-नगरी अति उत्तमा जाता। अस्याः विज्ञान-नगरेः निर्माणं विशिष्टैः अवधारणाभिः सह कृतम्। एषा विज्ञान-नगरी विज्ञानस्य नवोन्मेषस्य च आधुनिकं केन्द्रं भवति, यत् सर्वेषां आयुवर्गाणां जनान् आकर्षयति।

सः अवदत् यत् देशे विज्ञान-प्रौद्योगिक्योः ज्ञानाय अवबोधनाय च एतत् केन्द्रं अत्यन्तम् आकर्षकं विशिष्टं च अस्ति। युवावर्गस्य मध्ये विज्ञानप्रति सजागरूकतां वर्धयितुं एषा विज्ञान-नगरी निर्मिता। अत्र आगच्छन्तः छात्र-छात्राः विज्ञानस्य मूलतत्त्वानि, गतिविधयः, सिद्धान्तांश्च सुलभतया बोधयितुं शक्नुवन्ति, तेषां विज्ञानस्य विषये रुचिः च वर्धिष्यते।

---------------

हिन्दुस्थान समाचार