इतिहासस्य पृष्ठेषु ३१ दिसम्बरमासः - १९२९ तमे वर्षे लाहौर-अधिवेशने महात्मा-गान्धिना पूर्ण-स्वराज्यस्य घोषणा कृता
१९२९ तमे वर्षे महात्मा-गान्धिनः नेतृत्वे भारतीय-राष्ट्रीय-काङ्ग्रेसदलेन ब्रिटिश-शासनस्य विरोधे पूर्ण-स्वराज्याय जनान्दोलनस्य आरम्भं कृतम्। तस्मिन्नेव वर्षे दिसम्बरमासे लाहौर-नगरे आयोजितं काङ्ग्रेस-अधिवेशनम् ऐतिहासिकं सिद्धम्, यत्र भारतस्य पूर्ण-स्व
आजादी के महानायक महात्मा गंधी। फोटो - इंटरनेट मीडिया


१९२९ तमे वर्षे महात्मा-गान्धिनः नेतृत्वे भारतीय-राष्ट्रीय-काङ्ग्रेसदलेन ब्रिटिश-शासनस्य विरोधे पूर्ण-स्वराज्याय जनान्दोलनस्य आरम्भं कृतम्। तस्मिन्नेव वर्षे दिसम्बरमासे लाहौर-नगरे आयोजितं काङ्ग्रेस-अधिवेशनम् ऐतिहासिकं सिद्धम्, यत्र भारतस्य पूर्ण-स्वातन्त्र्यमेव काङ्ग्रेसस्य अन्तिमं लक्ष्यम् इति घोषितम्। अस्य अधिवेशनस्य अध्यक्षता जवाहरलाल-नेहरूमहोदयेन कृता।

लाहौर-अधिवेशने स्पष्टतया उद्घोषितं यत् अधुना देशवासिनः ब्रिटिश-साम्राज्यस्य अधीने कस्यापि प्रकारस्य सीमित-स्वायत्ततां न स्वीकरिष्यन्ति। अधिवेशनस्य अवसरे एव २६ जनवरी १९३० तमे दिने स्वातन्त्र्य-दिवसत्वेन आचरितव्यः इति प्रस्तावः पारितः, येन स्वातन्त्र्य-सङ्ग्रामः नूतनां दिशिं नूतनां च ऊर्जां प्राप्तवान्।

अस्य निर्णयानन्तरं महात्मा-गान्धिना देशव्यापि जनान्दोलनस्य तीव्रीकरणाय रणनीतिः निर्मिता। पूर्ण-स्वराज्य-आन्दोलनं भारतीय-जनतायां स्वातन्त्र्ये दृढ-सङ्कल्पं सुदृढं कृतवान्, येन अग्रे सविनय-अवज्ञा-आन्दोलनादीनाम् ऐतिहासिक-घटनानां मार्गः प्रशस्तः।

महत्वपूर्णाः घटनाः

१४९२ – इटलीदेशस्य सिसिली-प्रदेशात् प्रायः एकलक्षं यहूदीजनाः निष्कासिताः।

१६०० – ब्रिटिश-ईस्ट-इण्डिया-निर्माण्याः स्थापना अभवत्।

१७८१ – अमेरिकादेशे प्रथमः धनागारः ‘बैंक् ऑफ नॉर्थ अमेरिका’ उद्घटितः।

१८०२ – पेशवा बाजीराव-द्वितीयः ब्रिटिश-संरक्षणं प्राप्तवान्।

१८५७ – महाराज्ञ्या विक्टोरिया ओटावा-नगरं कनाडादेशस्य राजधानी इति घोषितम्।

१८६१ – असमप्रदेशस्य चेरापूंजी-क्षेत्रे २२,९९० मि.मी. वर्षा अभवत्, या विश्वे सर्वाधिकवृष्टिरूपेण अभिलेखिता।

१९२९ – महात्मा-गान्धिनः नेतृत्वे काङ्ग्रेस-कार्यकर्तृभिः लाहौर-नगरे पूर्ण-स्वराज्याय आन्दोलनम् आरब्धम्।

१९४४ – अमेरिकादेशस्य उटाह-राज्ये ओग्डन्-नगरे रेल-दुर्घटनायां ४८ जनाः दिवङ्गताः।

१९४४ – द्वितीय-विश्व-युद्धे हङ्गरीदेशेन जर्मनीदेशस्य विरुद्धं युद्धघोषणा कृता।

१९४९ – विश्वस्य १८ राष्ट्रैः इण्डोनेशिया-देशः मान्यतां प्राप्तवान्।

१९६२ – हालैण्डदेशेन दक्षिण-पश्चिम-प्रशान्त-महासागरे स्थितं न्यू-गिनी-द्वीपं परित्यक्तम्।

१९६४ – इण्डोनेशिया-देशः संयुक्त-राष्ट्र-सङ्घात् निष्कासितः।

१९८१ – घाना-देशे सैनिक-क्रान्त्या राष्ट्रपति डॉ.लिमानः सत्ताच्युतः, तथा जेरीरालिङ्ग्सः सत्तां स्वीकृतवान्।

१९८३ – ब्रुनेई-देशः ब्रिटेनात् स्वातन्त्र्यं प्राप्तवान्।

१९८४ – राजीव-गान्धीः ४० वर्षे आयुषि एव भारतस्य सप्तमः प्रधानमन्त्री अभवत्।

१९८४ – मो.अजहरुद्दीनः अन्ताराष्ट्रिय-क्रिकेट-जीवनस्य आरम्भं कृतवान्।

१९८८ – परमाणु-प्रतिष्ठान-आक्रमण-निरोधाय भारत-पाकिस्तानयोः सन्धिः हस्ताक्षरिता।

१९९७ – मोहम्मदः रफीकतरारः पाकिस्तानस्य नवमः राष्ट्रपति निर्वाचितः।

१९९९ –

भारतीयविमानसेवायाः विमान-८१४ इत्येतमपहृत्य अफगानदेशस्य कन्धारवायुयानपत्तनम् अनयत्। सप्तदिनानन्तरं 190 जनान् अवशेष्य समस्या अपगता।

२००१ – भारतदेशेन पाकिस्तानं प्रति २० वाञ्छित-अपराधिनां सूची प्रदत्ता।

२००४ – अर्जेण्टीना-देशस्य ब्यूनर्स-आयर्स-नगरे अग्निकाण्डे १७५ जनाः मृताः।

२००5 – सुरक्षा-कारणैः संयुक्त-राज्य-अमेरिका-देशेन मलेशिया-देशे स्थितं स्वदूतावासम् अनिश्चितकालपर्यन्तं निरुद्धम्।

2007 - म्यांमार-देशस्य सैन्यसर्वकारेण सप्त विपक्षनेतारः गृहीताः।2008 - ईश्वरदास-रोहिणीः द्वितीयवारं मध्यप्रदेश विधानसभायाः अध्यक्षत्वेन नियुक्तः।

२०१४ – चीनदेशस्य शाङ्घाई-नगरे भगदड़-घटनायां न्यूनातिन्यूनं ३६ जनाः मृताः।

जन्म

१७३८ – लॉर्ड् कॉर्नवालिसः, फ़ोर्ट-विलियम्-प्रेसिडेन्सी इत्यस्य गवर्नर-जनरलः।

१८६६ – कृष्ण-बल्लभ-सहायः, बिहारस्य मुख्यमन्त्री, स्वातन्त्र्य-सेनानी च।

1915 - यमुनाबाई-वाईकरः, भारतस्य प्रसिद्धा लोककलाकारा आसीत्। सा 'लावणी-नृत्यस्य' साम्राज्ञी इत्यभिधीयते स्म।

१९२५ – श्रीलाल-शुक्लः, विख्यातः व्यङ्ग्य-साहित्यकारः।

1940 - त्रिदिबमित्रः, बाङ्ग्ला-साहित्यस्य 'बुभुक्षित-वंशः'

इत्यान्दोलनस्य प्रख्यातः कविः आसीत्।

१९४३ – बेन-किङ्ग्स्ले, ‘गान्धी’ चलचित्रस्य श्रेष्ठ-अभिनेता-पुरस्कारं प्राप्तवान्।

1951 - अरविन्द-गणपत-सावन्तः, भारतीयः राजनीतिज्ञः, मुम्बईतः शिवसेनादलस्य नेता अस्ति।1979 - अंशु-जमुसेन्पा, भारतस्य पर्वतारोही अस्ति।

निधनम्

१९२६ – विश्वनाथ-काशीनाथ-राजवाडे, प्रसिद्धः इतिहासकारः लेखकश्च।

१९५६ – रविशङ्कर-शुक्लः, मध्यप्रदेशस्य प्रथमः मुख्यमन्त्री।

१९६५ – वि. पि. मेननः, भारतीय-साम्राज्य-एकीकरणे सहयोगी।

1979 - ज्ञानसिंहः रानेवाला, भारतीयः राजनीतिज्ञः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता